पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सुधोपेते माधवनिदाने- रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् ॥१९॥ कफविदग्धदृष्टिनतान्ध्यं च- तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः । त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य । दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ॥६॥ नक्तान्ध्यमाह-तथेत्यादि । त्रिषु पटलेषु स्थितः स्वल्पोः, दोषः श्लेष्मा, प्रसह्य हठात्, नक्तान्ध्यमुत्पादयति, सः- नक्तान्ध्यदोषपीडितः, सूर्यानुगृ- होतदृष्टिः, भास्करानुग्रहात् , कफाल्पभावात् , दिवा दिवसे, रूपाणि पश्यति न रात्रौ । साध्योऽयम् ॥ ६० ॥ धूम-शोकज्वरायासशिरोऽभितापरभ्याहता यस्य नरस्य दृष्टिः । दशी-धूनांस्तथा पश्यति सर्वभावान् स धूमदीति नरः प्रदिष्टः ॥६॥ इस्वजाड्यः- यो हस्वजाड्यो दिवसेषु कृच्छ्राद्- ध्रस्वानि रूपाणि च तेन पश्येत् ॥ ६२॥ नकुलान्ध्यम्- विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् । चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः ६३ नकुलान्ध्यमाह-यथा नकुलस्य दृष्टिविद्योतते तथाऽस्य दोषामिपन्ना दृष्टिः, दिवा-दिने, चित्राणि रूपाणि पश्येत् । एष विकारो नकुलान्ध्यसंशः । कथ्यत इति शेषः । सर्वजोऽसाध्यश्च ॥६३ ।। इति सुधाया नेत्रनिदानम् । गम्भी-दृष्टिविरूपा श्वसनोपसष्ठा सङ्कोचमभ्यन्तरतस्तु याति । रिका-रुजाऽवगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः॥४॥ भागन्तुजो लिङ्गनाश:- बायो पुनाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ॥ निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः । सुरषिगन्धर्वमहोरगाणां संदर्शनेनापि च भास्करस्य ॥ ६५ ॥ हन्येत दृष्टिर्मनुजस्य यस्य स लिग्नाशस्त्वनिमित्तसंज्ञः । तत्राक्षि विस्पष्टमिवावभाति नैशयवर्णा विमला च दृष्टिः॥६६॥ अथ श्वेतमण्डलगता रोगाः। प्रस्तार्यम- प्रस्तार्यमै तनु स्तीर्ण श्यावं रक्तनिभं सिते। -सश्वेतं मृद शुक्लार्म शुक्ले तवर्धते चिरात् ॥ ॥६॥ शक्लार्म च-