पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ सुधोपेते माधवनिदाने- समन्ततः स्थिते दोषे संकुलानीव पश्यति । दृष्टिमध्यस्थिते दोषे महदूद्धस्वं च पश्यति ॥ ३ ॥ द्विधा स्थिते द्विधा पश्येद्वहुधा चानवस्थिते । दोषेष्ट्याश्रिते तिर्यक स एक मन्यते द्विधा ॥ ३८ ॥ चतुर्थपटलगत:- तिमिराख्यः सगै दोषश्चतुर्थ पटलं गतः ॥३९॥ चतुर्थपटलगतं तिमिराख्यं रोगमाह--तिमिरेत्यादि। आन्ध्योत्पादकत्वेन तिमिराख्य इति ॥ ३९ ॥ लिङ्गनाश:-रुणद्धि सर्वतोदृष्टि लिङ्गनाशमतः परम् । अस्मिन्नपि तमोभूते नातिरूडे महागदे ॥ ४०॥ चन्द्रादित्यौ सनक्षत्रावन्तरीक्षेच विद्युतः । निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ॥४१॥ भतः परं स एव रोगः सर्वतो दृष्टिरोधाल्लिङ्गनाश इति कथ्यते । लिङ्गयते-शायतेऽनेनेति लिङ्गम् इन्द्रियं तन्नाशोऽस्मिन्रोगेऽसौ लिङ्गग्नाश- इति । अन्तरीक्षे-आकाशे ॥ ४०-४१ ॥ जिङ्गनाशपर्यायौ- स एव लिङ्गनाशस्तु नीलिका-काचसंज्ञितः॥ ४२ ॥ दृश्यवस्तुरूपेण दोषविवेकः- वातरूपं-वातेन चापि रूपाणि भ्रमन्तीव च पश्यति । आविलान्यरुणाभानि व्याविद्धानीघमानवः ॥४३॥ पित्तरूपं-पित्तनादित्यखद्योतशक्रचापतडिद्गुणान् । नृत्यतश्चैव शिखिनः सर्वे नीलं च पश्यति ॥ ४४ ॥ कफरूपं-कफेन पश्येनुपाणि स्निग्धानि च सितानि च । (पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रमेवाभ्रसंप्लवम् ।) सलिलप्लावितानीव परिजाज्यानि मानवः ॥ ४॥ दोषविशेषेण रूपविशेषदर्शनमाह-वातेनेत्यादि । आविलानि मस्व. च्छानि । च्याविद्धानीव-वाणीव । खद्योतः ज्योतिरिङ्गणः। शकचापः इन्द्रधनुः । तडित्-विद्युत् । गुणान्-रूपाणि, शिखिना-बहिणः । असू. क्ष्माणि स्थूलानि ॥ ४४-४५ ॥ -