पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ सुधोपेते माधवनिदाने- सिरा-मोहात्सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः । हर्षः-ताम्रामम स्रवति प्रगाढ़ तथा न शक्रोत्यभिवीक्षितुं च ॥२२॥ सत्रण-शुक्लरोगलक्षणम्- निमग्नरूपं तु भवेद्धि कृष्णे सुच्येव विद्धं प्रतिभाति यद्वै। सावं स्रवेदुष्णमतीव यच्च तत् सत्रणं शुक्ल (क) मुदाहरन्ति ॥२३॥ सव्रणशुक्लमाह-निमग्नेत्यादि । कृष्णे-कृष्णमण्डले, निमग्न, रूपं भवेत् । यत्सूच्येव विद्धं प्रतिभाति । यदतीवोष्णं नावच स्रवेत् तत्सवणं शुक्लमुदाहरन्ति, मनीषिण इति शेषः ॥ २३ ॥ तस्य सन्दिग्धसाध्यलक्षणम्- दृष्टेः समीपे न भवेत्तु यच न चावगाढं न च संत्रवेद्धि । अवेदन वा न च युग्मशुक्ल तत् सिद्धिमायाति कदा चिदेव ॥२४॥ श्रवण-शुरोगलक्षणम्- स्यन्दात्मकं कृष्णगतं सचोष शखेन्दुकुन्दप्रतिमावभासम् । हायसाभ्रप्रतनुप्रकाशमथावणं साध्यतमं वदन्ति ॥२६॥ अव्रणशुक्ललक्षणमाह-स्यन्दात्मकमित्यादि।स्यन्दात्मकम् अभिष्यन्द निमित्तक,वैहायसाभ्रप्रतनुप्रकाश-विहायसि स्थित वैहायस, 'तस्य निवास इत्यण् । वैहायसाभ्रवत् आकाशस्थितपयोधरतुल्यं, प्रतनुप्रकाशम् । शबखेन्दु- कुन्दप्रतिमावभासशक्षादीनां प्रतिमेव आकृतिरिवाभासो यस्य तथोक्तम् । अवणं साध्यतमं वदन्ति ॥ २५॥ तस्य कृच्छसाध्यलक्षणम्- गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम् ॥२६॥ कृच्छसाध्यत्वादिकमाह-गम्भीरेत्यादि । गम्भीरजात-द्वित्रित्वग्ग- तम् । चिरोत्थित-बहुकालीनम् ॥ २६ ॥ तस्यासाध्यलक्षणम्- विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृष्य । द्वित्वगतं लोहितमन्ततश्च चिरोत्थितं चापि विषजनीयम् ॥ अष्णाश्रुपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम् । सदप्यसाध्यं प्रवदन्ति केचिदन्याच यत् तित्तिरिपक्षतुल्यम् ॥२७॥ पिशितावृतं-मांसावनद्धम् । विवर्जनीयम्-प्रसाध्य भिारमप्यसा- धमाह-उष्णाभुपात इत्यादि। यस्मिन् नेत्रे उभ्णाश्रुपातः पिडका च