पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- नेत्ररोगनिदानम् ५९। १०१ निर्मथ्यते च तमधिमन्य स्वलक्षणः वातादिलिङ्गः, जानीयात् ॥ १० ॥ मिथ्याऽऽचाराद् दोषभेदेनाधिमन्यकृतो नेत्रनाशावधिः- हन्या दृष्टिं श्लौष्मिकः सप्तरात्रा-दधीमन्थो रक्तजः पञ्चरात्रात् । षड्रात्राद्वातिको वै निहन्यान् मिथ्याचारात् पैत्तिकः सथ एव ॥११॥ सामत्वरूपम्-उदीर्णवेदनं नेत्रं रागशोथसमन्वितम् । घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः ॥ १२॥ निरामस्वरूपं-मन्दवेदनता कण्डूः संरम्भानुप्रशान्तता। प्रशस्तवर्णता चाणोः संपर्क दोषमादिशेत् ॥ ३ ॥ शोथजः कण्डूपदेहाश्रुयुतः पकोदुम्बरसन्निभः । पाकः-संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः ॥१४॥ भशोथजः पाकः शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे ॥१५॥ हताधि-उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसर । मन्थः-रुजाभिरुणाभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ॥१६॥ बातपर्ययः-बारम्बार च पर्यति ध्रुवौ नेत्रे च मारुतः । रुजच विविधास्तीवाः स ज्ञेयो वातपर्ययः ॥१७॥ शुष्काक्षि- यत् कूणितं दारुणरूक्षवम संदह्यते चाविलदर्शनं यत् । सुदारुणं यत् प्रतियोधने च शुष्काक्षिपाकोपहतं तदक्षि ॥१८॥ अन्यतो-यल्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा। वातः-कुर्याद्वज नै भुवि लोचने च तमन्यतोवातमुदाहरन्ति ॥ १९ ॥ अन्यतोवातमाह-यस्येति । अवटुः घाटा-(अवटुर्घाटा कृकाटिके- त्यमरः) मन्ये-धीवापार्श्वशिरे, अन्यतो वा-पृष्ठे, भ्रवि लोचने च रुज कुर्यात् तमन्यतोवातम् , उदाहरन्ति कथयन्ति, भिषज इति शेषः ॥ १९ ॥ अम्लाध्युषितं श्यावं लोहितपर्यन्तं सर्व चाक्षि प्रपच्यते । सदाहशोथं सास्रावमम्लाध्युषितमम्लतः ॥२०॥ सिरो-अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः। पातः-मुहुविरज्यन्ति चयाः स ताग व्याधिः सिरोत्पात इति प्रदिष्टः२१ सिरोत्पातमाह-अवेदनेत्यादि । अवेदनाः सवेदना वा यस्य-पुरुषस्य, अक्षिराज्य नेत्रसिराः, ताम्रा भवन्ति, मुहुः, विरज्यन्ति विशेषरता भवन्ति च स तादृग् व्याधिः सिरोत्पात इति प्रदिष्टः कथितः । रक्तजोऽयम्र पाक:- .