पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सुधोपेते माधवनिदाने- जनयन्ति = उत्पादयन्तीत्यर्थः । षट्सप्ततिश्चैत नेत्रगता रोगाः सुश्रुतेन विभ- ताः-यदाह-नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः। शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः । सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु । द्वौ च वाहाश्रयावन्यावनिमित्तनिमित्तजौ। षट्सप्ततिनेत्ररोगाः संग्रहेण प्रकीर्तिताः। इति । नेत्रप्रमाणन्तु-विधादू दयालबाहुल्यं स्वा. गुष्टोदरसमितम् । द्वयङ्गुलं सर्वतः सार्धे भिषक् नयनवुवुदम् ॥ १-३॥ समस्तनेत्राश्रितरोगानाह- भभिष्यन्दाः-वातात् पित्तात कफाद्रक्तादभिष्यन्दश्चतुर्विधः। प्रायेण जायते घोरः सर्वनेत्रामयाकरः ॥ ४॥ वातजाभिष्यन्दः- निस्तोदनस्तम्भनरोमहर्ष-संघर्षपारुष्यशिरोऽमितापाः । विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ॥१॥ वाताभिष्यन्दमाह-निस्तेोदनेति । निस्तादनं-सूचीव्यधनवद् व्यथा, संघर्षः- वालुकापूर्णा इव करकरिका । विशुष्कभावः=नेत्रमलराहित्यम् ॥१॥ पित्तजाभिष्यन्दः- दाहप्रपाको शिशिराभिनन्दा धूमायनं वाष्पसमुच्छ्यश्च । उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ॥६॥ पैत्तिकमाह-दाहेत्यादि । शिशिराभिनन्दा-शीतेच्छा, बाप्पसमु- च्छ्या बाष्पोद्रेकः ॥६॥ कफजाभिष्यन्दः- उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च । स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ॥७॥ रक्तजाभिष्यन्दः- ताम्राक्षुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च । पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥८॥ चत्वारो- बुद्धरेतैरभिष्यन्दनराणामक्रियावताम् । ऽधिमन्या:-सावन्तस्त्वधिमन्थाः स्युनयने तीनवेदनाः॥९॥ तत्सामान्य- उत्पाट्यत इवात्यर्थ नेत्र निर्मथ्यते तथा। रूपम्- शिरसोऽधं च तं विधादधिमन्य स्वलक्षणैः ॥१०॥ अधिमन्यमाह-उत्पाव्यत इत्यादि। नेत्र शिरसोऽयं वा उत्पाव्यते ।