पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- क्षवप्रवृत्तिरत्यर्थ वक्त्रवरस्यमेव च । भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके ॥ १८ ॥ पित्तजः-उष्णः सपीतकः स्वावो घ्राणात् सवति पैत्तिके कृशोऽतिपाण्डुः संतप्तो भवेदुष्णाभिपीडितः ॥ सधूममनि सहसा वमतीव स मानवः ॥ १९ ॥ वातादिप्रतिश्यायल क्षणमाह-आनद्वा इत्यादिना । शहन्योः भ्रूपुच्छा. न्तयोः, वक्ररस्य-मुखस्य स्वादाभावः । स्वरोपघातः स्वरभङ्गः। सपो. तका ईषत्पीतकः ।। २७-१९ ।। कफज:-घ्राणात् कफः कफकृते शीतः पाण्डुः सवेद्वहुः ॥ २० ॥ शुक्लावभासः शुक्लाक्षो भोद गुरुशिरा नरः ।। कण्ठताल्वोष्ठशिरसां कण्डभिरभिपीडितः ॥२१॥ सर्वजः- भूत्वा भूत्वा प्रतिश्यायो यस्याकल्मानिवर्तते । संपको वाऽप्यपक्चो वा स सर्वप्रभवः स्मृतः ॥२२॥ सन्निपातजमाह-भूत्वेत्यादि । यस्य सम्पयः अरिपक्वः, अपक्वा- आमो वा, प्रतिश्यायो भूत्वा भूत्वा अकस्मात्-निष्कारणं, निवर्तते, स सर्व प्रभवः स्मृतः-कथितः ॥ २२ ॥ दुष्टप्रतिश्यायःप्रक्लिद्यते पुनर्नासा पुनश्च परिशुष्यति । पुनरानह्यते वाऽपि पुनर्विप्रियते तथा ॥ २३ ॥ निःश्वासो वाऽतिदुर्गन्धो नरो गन्धान न वेत्ति च । एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् ॥ २४ ॥ रक्तजः-रक्तजे तु प्रतिश्याये रक्तस्त्रावः प्रवर्त्तते । ताम्राक्षश्च भवेज्जन्तुरुरोधातप्रपीडितः । दुर्गन्धोच्छ्वासवदनो गन्धानपिन वेत्ति सः ॥ २५ ॥ असाध्यहेतुः-सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः । दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति हि ॥२६॥ असाध्यमाह--सर्व इत्यादि। अप्रतिकारिणः-चिकिरिसतमनारममा- णस्य पुंसः, सर्व एव प्रतिश्यायाः कालेन समयमासाथ, दुष्टता यान्ति तदाड- साध्या भवन्ति ॥ २६ ॥ नासाक्रिमिः-मूछन्ति चात्र क्रिमयः श्वेताः स्निग्धास्तथाऽणवः । क्रिमितो यः शिरोरोगस्तुल्यं सेनास्य लक्षणम् ७२॥