पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नासारोगनिदानम् ५८। १९० नासा-घाणाश्रिते स्रोतसि मारुतेन गाढं प्रसप्से परिशोषिते च । शोष:-कृच्छ्राच्छवसेदूर्ध्वमधश्च जन्तुर्यस्मिन् सनासापरिशोष उक्तः ॥१०॥ आमपीनसः-शिरोगुरुत्वमरुचि सास्त्रावस्तनुः स्वरः। क्षामः ष्टीवस्यथाभीक्ष्णमामपीनसलक्षणम् ॥११॥ पकपीनसः-आमलिङ्गान्वितः श्लेष्मा घन: खेषु निमज्जति स्वरवर्णविशुद्धिश्च परिपकस्य लक्षणम् ॥ १२ ॥ प्रतिश्यायकारणानि- संधारणाजीर्णरजोऽतिभाष्य-क्रोध वैषम्यशिरोऽभितापैः ॥१३॥ प्रजागरातिस्वपनाम्बुशीतरवश्ययामैथुनबाष्पधूमैः । संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु ॥ १४ ॥ वातपित्तकफरक्तसन्निपातजभेदात् पञ्चविधस्य प्रतिश्यायस्य हेतुद्वैविध्यम् , एक-सद्योजनकं, द्वितीयन्तु-दोषादीनां चयादिक्रमापेक्षजनक, तत्राद्यस्य सयो- जनकस्य निदानपूर्विका सम्प्राप्तिमाह-सन्धारणेत्यादि। सन्धारणादिभिहे. तुभिः संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेदित्यन्वयः। सन्धा- रणं- मलमूत्रादीनाम् , रजोधूलिः, शिरोऽभितापः - मस्तकपीडाकरो धू. मादिः, अतिस्वपनं-दिनेऽपि शयनम् , अवश्यया-तुषारेण ॥१३-१४॥ चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् । प्रकुप्यमाणा विविगैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि १५ द्वितीयमाह-चयमित्यादिना। विविधैः प्रकोपणः बलवद्विग्रहादिभिः, दिवास्वापादिभिर्वा-मूर्धनि-मस्तके, चयं गताः पृथग् मारुतादयः समस्ताश्च तथैव शोणितम् । एते सर्व प्रतिश्यायकरा भवन्ति ॥ १५ ॥ पूर्वरूपंक्षवप्रवृत्तिः शिरसोऽतिपूर्णता स्तम्भोऽङ्गमदः परिहृष्टरोमता। उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ॥१६॥ पूर्वरूपमाह-क्षवप्रवृत्तिरित्यादि । क्षप्रवृत्तिः भवथोरुद्गमः, शिर- सोऽतिपूर्णता शिरोगुरुत्त्र, स्तम्भः = जाड्यम् , अङ्गमर्दः शरीरपीडा, प. रिहष्टरोमता-रोमाञ्चः, अपरेऽपि वाणधूमायनादयः, उपद्रवाः प्रतिश्या- यपुरःसरा प्रतिश्यायस्य पूर्वरूपाणि, भवन्ति ॥ १६ ॥ वातजः-आनद्धा पिहिता नासा तनुनावप्रसेकिनी । गलताल्योष्टशोपच निस्तोवः शान्योस्तथा ॥१७॥ . "