पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ सुधोपेते माधवनिदाने- कर्णप्र-स कर्णगूथो द्रवतां गतो यदा विलायितो घाणमुखं प्रपद्यते । तिनाहत्तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽर्धभेदकृत् ॥७॥ कृमिक-यदातुमूर्च्छन्त्यथवाऽपिजन्तवःसृजन्स्यपत्यान्यथवाऽपि मक्षिकाः। कर्ण:-तव्यञ्जनत्वाच्छ्रवणो निरुच्यते,भिषम्भिरायः क्रिमिकर्णको गदा क्रिमिकर्णकमाइ-यदेत्यादि । यदा जन्तवः क्रिमयः, मूर्च्छन्ति च्छ्रिता भवन्ति, मक्षिकाः, अपत्यानि = पृथुकान् , सृजन्ति = जनयन्ति, तव्यञ्जनत्वात्-क्रिमिलक्षणत्वात , आय:=पुरातनः, भिषग्भिः स श्रवणः क्रिमिकर्णकः, निरुच्यते कथ्यते। श्रवणशब्दस्य पुंस्त्ववर्णनं लोकाश्रयत्वात्।। कर्णकीटा:-पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि। अरति व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ॥ ९ ॥ कर्णो निस्तुचते तस्य तथा फरफरायते । कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना ॥ १० ॥ कर्णप्रविष्टकीटादिलक्षणमाह-पतङ्गा इत्यादि। शतपद्या=(कीटविशे- पाः ) कनगोजर इति प्रसिद्धाः । निष्पन्दे - स्थिरे ॥ ९-१० ॥ कर्णवि-क्षताभिघातप्रभवस्तु विद्राधर्भवेत्तथा दोषकृतोऽपरः पुनः । द्रधिः-सरक्तपीतारुणमस्रमायेत् प्रतोदधूमायनदाहचोषवान् ॥११॥ कर्णपाका-कर्णपाकस्तु पित्तेन कोथविक्लेदद्भवेत् । कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ॥ १२ ॥ पूतिकर्णकः-पूर्य सवति पूति वा स ज्ञेयः पूतिकर्णकः ॥ १३ ॥ कर्षशोथादयःकर्णशोथायुदाीसि जानीयादुक्तलक्षणैः ॥ १४ ॥ दोषनिहानि- नादोऽतिरक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात् । शोथः सरागोदरणं विदाहः सपीतपूतिस्रवणं च पिसात् ॥ वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफास । सर्वाणि रूपाणि च सन्निपातात् सावश्च तत्राधिकदोषवर्णः ॥१५॥ परिपोट:-सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रबधिते । कर्णशोथो भवेत् पाल्यो सरुजः परिपोटवान् । कृष्णारुणनिभः स्तब्धः स वातात परिपोटकः ॥१६॥ उत्पातः-गुर्वाभरणसंयोगासाडनावर्षणापि ॥१७॥ शोथ: पाल्यां भवेच्छयावो दाउपाकरजाऽस्वितः।