पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्णरोगनिदानम् ५७॥ पतस्तु सोपद्रवत्वादस्य दुःसाध्यत्वम् । उपद्रवा यथा -मूर्छा दाहो ज्वरः कासो हल्लासो वमथुस्तथा । उपद्रवाः कर्णशूले भवन्त्येते मरिष्यतः॥ इति ॥१॥ कर्णनादः-कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वरान् । भेरीमृदङ्गशलानां कर्णनादः स उच्यते ॥२॥ कर्णनादमाह-कर्णेत्यादि । भेरीमृदङ्गशङ्खानां विविधान् स्वरान् शृणोति वायोविविधप्रकारेण सञ्चरणादिति भावः। अत्र भेर्यादिशब्द उपलक्षणं तेना. न्यत्र मृदङ्गादिशब्दश्रवणमपि वर्णितं, यथाऽऽह विदेहः-शिरोगतो यदा वायुः श्रोत्रयोः प्रतिपद्यते । तदा तु विविधाञ् शब्दान समीरयति कर्णयोः ॥ भृङ्गारक्रौचनादं वा मण्डूककाकयोस्तथा । तन्त्रीमृदङ्गशब्द वा सामतूर्यस्वनं तथा ॥ गीताध्ययनवंशानां निर्घोषं वेडनं तथा। अपामिव पतन्तीनां शकटस्येव गच्छतः ॥ श्वसतामिव सर्पाणां सदृशः श्रूयते स्वनः ॥ इति ॥२॥ बधिरता-यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति श्लेष्मान्वितो वाऽपि वाधियं तेन जायते ॥३॥ कर्णक्ष्वेड:-वायुः पिसादिभिर्युक्तो घेणुघोषोपमं स्वनम् । करोति कर्णयोः वेडं कर्णवेडः स उच्यते ॥४॥ कर्णवेडमाह-वायुरित्यादि। पित्तादिभियुक्तो वायुः, वेणुघोषोपमं= वंशीरावतुल्यं, वेडं जनामकं स्वनं शब्दं करोति स कर्णवेड उच्यते। ननु कर्णनादादस्य कथं भेदः ? उच्यते-कर्णनादो हि केवलवातजन्यः कर्णक्ष्वेडस्तु पित्तादिसंसृष्टानिलजन्मा । किश्च कर्णनादे विविधमृदङ्ग भेर्यादिशब्दश्रवणं, कर्णवेडे तु वेणुशब्दस्येव नियमतः श्रवणमिति परस्पर भेदः ॥४॥ कर्णस्रावः शिरोऽभिघातादथवा निमज्जसो जले प्रपाकादथवाऽपिविद्धेः । नवेद्धि पूर्य श्रवणोऽनिलादितः स कर्णसंत्रावहति प्रकीर्तितः॥५॥ कर्णनावमाह-शिरोऽभिधातेत्यादि । स्वेद्धि पूयमिति। उपलक्षण- मिद, तेन रक्तजले अपि स्रवत इति बोध्यम् । अन्यथा जलनिमजनमात्रेण पूयस्यासम्भवात् , कथनमसतं स्यादिति भावः ॥ ५॥ कर्णकण्डूः मारुतः कफसंयुक्तः कर्णकण्डूंकरोति। कर्णगूथश्व-पित्तोष्मकोषितः श्लेष्मा कुरुते कणंगूयकम् ॥६॥

. ..