पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ सुधोपेते माधवनिदाने- वातादिजालयः सर्वसरा:- स्फोटः सतोदन समन्तायस्याचितं सर्वसरः स वातात् । रस्तः सदाहस्तनुभिः सपीलैर्यस्याचितं चापि स पित्तकोपात्। अवेदनैः कण्डयुतः सवर्णर्यस्याचितं चापि स वै कफेम ॥१६॥ ओष्ठप्रकोपादिष्वसाध्यान् दर्शयति-- ओष्ठप्रकोपे बाः स्युमीसरतत्रिदोषजाः । दन्तमूलेषु वयो च त्रिलिङ्गगतिशौषिरौ। दन्तेषु च न सिध्यन्ति भयावदालनमअनाः । जिहारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ॥१७॥ भोष्ठप्रकोपादिष्वसाध्यानाह-ओष्ठप्रकोप इत्यादि ॥ ५७ ॥ गलबा:-स्वरनो वलयो बृन्दो पलाशश्च विदारिका । गलौषो मांसतानश्च शतमी रोहिणी गले ॥१८॥ असाध्याः कीर्तिता मेते रोगा नव दशैव तु । तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥ १९ ॥ इति श्रीमाधवकरविरचिते-माधवनिदाने षट्पञ्चाक्षत्तम मुखरोग-निदानं समासम् ॥ १६ ॥ एते मुखावयवगता ओष्ठजास्त्रयः, दन्तमूलेषु द्वौ, दन्तभवेषु त्रयः, जिह्वा. गतेष्वेकः, तालुन्येकः, स्वरघ्नादयो गले नव सङ्कलनया सर्वे नव दशैव रोगा असाध्याः । एषु प्रत्याख्याय वैषः क्रियां चिकित्सा, समारभेत् ।। ५९ ॥ इति सुधायाँ मुखरोगनिदानम् । अथ सप्तपञ्चाशत्तमं कर्णरोग-निदानम् ॥ ५७ ॥ कर्णशुलः-समीरणः श्रोत्रगतोऽन्यथा चरन् समन्ततः शूलमतीव कर्णयोः । करोति दोङ्गश्च यथास्वमावृतः स कर्णशूला कथितो दुराचरः॥१॥ कर्णशूलमाह-समीरण इत्यादि । श्रोत्रगतः श्रयतेऽनेनेति श्रोत्रं- कर्णशष्कुल्यवच्छिन्नं नमः, तद्गतः, समीरणः- पवनः, अन्यथा घरन् - प्रतिलोम गच्छन् , समन्ततः- परितः, कर्णयोः शूलं करोति। सः-तथाविधः कर्णशूलः, दोषैः श्लेष्मपिसशोणितः, यथास्वस्वीयदोषानतिक्रमेण, मावृतः दुराचरम् दुःखेनाचर्यते उपचर्यत इति दुराचरः, दुःसाध्यः कथितः । विशे.