पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० सुधोपेते माधवनिदाने- दित्यर्थः । कफात जिहोपरिष्टात्-रसनाया उपरिप्रदेशे जिह्वाऽग्ररूपः श्व- यथुः, एष रोगोऽधिजिह्नः खलु शेयः। एनमागतपार्क विवर्जयेत् , आगतपाकत्वेन पित्तसम्बन्धोऽप्यत्र सूचितः ॥ ४४ ।। वलयः-बलास एवायतमुन्नतं च शोथं करोत्यत्रगति निवार्य। तं सर्वथैवाप्रतिवार्यवीर्य विवर्जनीयं वलयं वदन्ति ॥ ४५ ॥ वलयमाह-वलाशत्यादि । बलासः- कफः, अब्रगतिम्-अन्नवहस्रोतः, निवार्य, आयतं विशालमुन्नतं च शोथं करोति । सर्वथाऽप्रतिवार्यवीर्य- सर्वतो भावेनानिवार्यप्रभाव, विबर्जनीयं, बलयाख्यं व्याधि वदन्ति वैद्या इति शेषः ॥ ४५ ॥ वलाशकः-गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलो श्वासरुजोपपन्नम् । मर्मच्छिदं दुस्तरमेनमाहुर्वलाशसंज्ञं निपुणा विकारम् ॥४६॥ वलाशमाह-गल इत्यादि । मर्मच्छिदं हृदयविदारकं, निपुणा:- ममः ज्ञाः, विकारं व्याधिम् ॥ ४६॥ एकवृन्दः वृत्तोन्नतोऽन्तःश्चयथुः सदाहः सकण्डुरोऽपाक्यमृद्गुरुश्च । नाम्नैकवृन्दः परिकीतितोऽसौ व्याधिर्बलाशक्षतजपसूतः॥४॥ एकवृन्दमाह-वृत्रोत्यादि । अन्त: गलमध्ये, सदाहो-मन्ददाह:. सह शब्द ईषदर्थे । अपाकी स्वल्पपाकी, वलासक्षतजप्रसूतः - वलास:- कफः क्षतजो-रक्तः, ताभ्यां प्रसूतो जातः श्लेष्मशोणितप्रभव इत्यर्थः ॥४७॥ वृन्दः-समुन्नतं वृत्तममन्ददाहं तीबज्वरं वृन्दमुदाहरन्ति तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु । ४८ ॥ बृन्दमाह-समुत्रतमित्यादि। पित्तक्षतजप्रकोपाद् जातं समुन्नतम् , अमन्ददाहं प्रकामदाह, तीवज्वरं ज्वरोत्कटं, (शोध) बृन्दम् उदाहरन्ति= कथयन्ति । पवनात्मक चेत् सतोदं- सव्यथं, शेयम् । एष व्याधिरेकवृन्दस्यै . वावस्थाविशेषरूपोऽतो न संख्याऽतिरेकः, यद्यप्येकवृन्दः कफरक्तजः, वृन्दस्तु- पित्तरक्तजो वर्णितस्तथा वृन्दस्यैव सतोदत्वेन वातात्मकत्वमुक्तं तथाऽप्येकवृ. न्दस्यावस्थाविशेषत्वेन वृन्दः सङ्गच्छत एवेति ॥ ४८ ॥ वतनी-त्तिर्घना कण्ठनिरोधिनी या चिताऽतिमा पिशितप्ररोहः । अनेकरुक प्राणहरी त्रिदोषाज्ञया शतनी च शतनिरूपा ॥ १९ ॥ शतघ्नीमाह-वसिरित्यादि। त्रिदोषात् पिशितप्ररोहै मांसाधरः, भ. तिमात्रं चिता-व्याता,भनेकरुग्- नानाविधवातपित्तकफजादिवेदनाऽन्विता। .