पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुखरोगनिदानम् १६ । १८९ रोहिणीमाह-गलेऽनिल इत्यादि । प्रदुष्टः, अनिलो वायुः, मूच्छितौ- प्रदुष्टी, पित्तकफो च गले मांस तथैव शोणितं रक्तं च प्रदूष्य गलोपसरो- धकरैः- गलनालावष्टम्भकरैः, तथाऽङ्कः, असून-प्राणान् , निहन्ति- व्यापादयति, एषा रोहिणी नाम व्याधिः कथ्यत इति शेषः । रोहिण्यः पञ्चविधा भवन्ति सर्वा एव सन्निपातजा जायन्ते,दोषोत्कर्षाद् वातजत्वादिव्यवहार एतासु भवति । केचित्तु-पृथक् समस्ताश्च तथैव शोणितम् , इति पठित्वा एकदो- षजत्वमप्यामनन्ति ॥ ३९ ॥ वातजा- जिह्वासमन्ताद् भृशवेदना तु मांसाकुराः कण्ठविरोधिनो ये। सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढयुक्ता ॥ ४० ॥ वातजादिभेदेन रोहिणीलक्षणमाह-जिहत्यादिना । जिहासमन्तात- जिह्वायाः सर्वतः कण्ठविरोधिनः- कण्ठावरोधनाः, मासाकुराः= मांसप्र. रोहाः । वातात्मकोपद्रवगाढयुक्ता- वातात्मका य उपद्रवाः कम्पादयस्तैर- नुगता या सा वातकृता रोहिणी प्रदिष्टा,॥ ४० ॥ पित्तजा कफजा च- क्षिप्रोगमा क्षिप्रविदाहपाका तीबज्वरा पित्तनिमित्तजा तु । स्रोतोविरोधिन्यचलोदता च स्थिराइकुरा या कफसंभवा सा॥४१॥ त्रिदोषजा रक्तजा च- गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोस्थिता च । स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु॥४२॥ त्रितयोस्थिता-दोषत्रयजन्या, अनिवार्यवीर्या अनिवार्य-चिकित्स- याऽपि न निवार्य वीर्य-प्रभावो यस्याः सा तथाभूता ॥ ४२ ॥ कण्ठशा-कोलास्थिमात्रः कफसंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः । लूकः-खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति अवन्ति ॥४३॥ कण्ठशालूकमाह-कोलेत्यादि । कोलास्थिमात्र:= वदरास्थिनिमः, कफ सम्भवो यो ग्रन्थिः, गले कण्टकशूकभूतः- कण्टकवत् शकवच्च पीडाजनकः, शनिपातसाध:- छेदनादिसाध्यः, तं कण्ठशालूकमिति वदन्ति ॥ ४३॥ अभिजि-जिह्वाऽमरूपः पवयथुः कफात्तु जिह्वोपरिशदपि रक्तमिश्रात् ।

-क्षेयोऽधिजितः खलु रोग एष विवर्जयेदागतपाकमेनम् ॥४४॥

अधिजिहिकामाह-जिह्वाऽपरूपहत्यादि। अपि रक्तमिधान केवला-