पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १८८ सुधोपेते माधवनिदाने- सृष्णाकासश्वासकृतं वदन्ति व्याधि वैद्याः कण्ठशुण्डीति नान्ना॥३४॥ तालुगतानाह-इलेष्मेत्यादि । श्लेष्मासुग्भ्यांकफरक्ताभ्यां तालुमूले प्रवृद्धः, ध्मातवस्तिप्रकाश:- अनिलपरिपूर्णचर्मपुटकनिभः, तृष्णाकासश्वा- सकृतो यो दीर्घः शोस्तं व्याधि वैद्याः कण्ठशुण्डीति नाम्ना वदन्ति ॥३४॥ तुण्डीकेरी चाध्रुषः- शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु । मृदुःशोथो लोहितःशोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीवरुक् च ॥३९॥ तुण्डिकेरीमाह-शोथ इत्यादि । प्रागुक्ताभ्यां-कफासगभ्यां स्थूलस्तो. ददाहप्रपाकी शोथः 'तुण्डिकेरीति मता-तुण्डिकेरी (वनकासीफलम् ) तदा- कृतिलक्षणवादेषा संज्ञा । अध्रुषमाह-मृदुरित्यादि । शोणितोत्थः - रक्तस- मुत्थः, मृदुः- स्वल्पः॥३५ ।। कच्छपोर्बुदश्व- कूर्मावतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु । पभाकार तालुमध्ये तु शोथं विद्याद्रकादर्बुदं प्रोक्तलिङ्गम् ॥३६॥ कच्छपमाह-कूत्यादिना । अवेदनः ईषवेदनः, अशीघ्रजन्मा- चिरकालीनः ताल्वर्बुदमाह-पद्मत्यादि। पनाकार - पद्मकणिकाऽऽकृति प्रोक्तलिङ्गं - रक्तार्बुदतुल्यलक्षणम् ॥ ३६ ॥ मांससंघातः पुप्पुटश्च- दुष्टं मांस नीरुज तालुमध्ये कफाच्छूनं मांससंघातमाहुः । नीरुक स्थायी कोलमात्रःकफात् स्यान् मेदोयुक्तात्पुप्पुटस्तालुदेशे ३७ मांससंघातमाह-दुष्टमित्यादि । कफात्श्लेष्मोत्पन्न,शून-शोथयुक्तम्। पुप्पुटमाह-मैदोयुक्तात्कफात् तालुदेशै नीरुग-वेदनावर्जितः, स्थायी-नि- श्चलः, कोलमात्रः-वदराकृतिशोथः पुष्पुटः तालुपुप्पुटः, तालुशब्दोऽत्र लुप्तनिर्दिष्टो बोद्ध्यः ।। ३७॥ तालुशोषस्तालुपाकश्च- शोषोऽत्यर्थ दीर्यते चापि तालुवासयोग्रस्तालुशोषोऽनिलाच । पित्तं कुर्यात् पाकमत्पर्यघोर तालुन्येन तालुपाकं वदन्ति ॥३८॥ रोहिणी- गलेऽनिलपित्तकफौचमूच्छितौ प्रदूष्यमांसंचतथैवशोणितम् । गलोपसरोधकरैस्तथाऽगनिहन्त्यसून व्याधिरि हिरोहिणी ॥३९॥