पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षुद्ररोगनिदानम् १५॥ १७९ इन्द्रविद्धा-पद्मणिकवन्मध्ये पिडकाभिः समाधिताम् । हन्द्रविद्धां तु तां विद्यावातपित्तोत्थितां भिषक् ॥ ८॥ गर्दभिका-मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् । रुजाकरी गर्दभिकां तां विद्याद्वातपित्तजाम् ॥९॥ पाषाण- वातश्लेष्मसमुद्भूतः यथुईनुसन्धिजः । गर्दभः- स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ॥ १० ॥ पनसिका-कर्णस्याभ्यन्तरे जातां पिडकामुपवेदनाम् । स्थिरां पनसिकां तां तु विद्याद्वातकफोत्थिताम् ॥११॥ जालगर्दभः-विसर्पवत्सर्पति यः शोथस्तनुरपाकवान् । दाहज्वरकरः पित्तात्स शेयो जालगर्दभः ॥ १२ ॥ हरिवेल्लिका-पिडकामुत्तमाङ्गस्था वृत्तामुग्ररुजाज्वराम् । सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ॥ १३ ॥ कक्षा-बाहुपार्योसकक्षेषु कृष्णस्फोटा सवेदनाम् । पित्तप्रकोपसम्भूतां कक्षामित्यभिनिदिशेत् ॥१४॥ गन्धमाला-एकामेतादृशी दृष्ट्वा पिडकां स्फोटसन्निभाम् । त्वग्गतां पित्तकोपेन गन्धमाला प्रचक्षते ॥१५॥ अग्निरोहिणी-कक्षमागेषु ये स्फोटा जायन्ते मांसदारणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ॥ १६ ॥ सप्ताहाद्वा दशाहाद्वा पक्षाद्वा हन्ति मानवम् । तामग्निरोहिणी बिद्यादसाध्या सर्वदोषजाम् ॥१७॥ अग्निरोहिणीमाह-कक्षेत्यादि। कक्षभागेषु मांसदारणाः, अन्तर्दाह- ज्वरकसः, दीप्तपावकसन्निभाः, ये स्फोटा जायन्ते तां (विधेयप्राधान्यास्त्रीत्वम्) सर्वदोषजामसायामग्निरोहिणों विधात् । पक्षात्सप्ताहादशाहाद् वा मानव हन्ति (असावग्निरोहिणीति शेषः) वातपित्तकफाधिक्याद् यथाक्रम सप्ताहा. दिविकल्पो बोधयः॥२-१७॥ चिप्पं कुन-नखमांसमधिष्ठाय वायुः पितं च देहिनाम् । खंच- कुर्वाते दाहपाकौ च तं व्याधि चिप्पमादिशेत् ॥१८॥ तदेवाल्पतरैर्दोषैः पुरुषं कुनखं वदेत् ॥ १९ ॥ अनुशयी-गम्मीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् । पादस्यानुशर्थी वा तु विद्यादन्तःप्रपाकिनीम् ॥२०॥