पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ सुधोपेते माधवनिदाने- मसूरिकाऽन्ते शोथः स्यात् कूपरे मणिबन्धके । तथाऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ॥ ३१ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुष्पश्चाशत्तम मसूरिका-निदानं समाप्तम् ॥ १४ ॥ निखिलमसूरिकाणामावस्थिक लक्षणमाह-कास इत्यादि। मसूरिका. ऽभिभूतस्य - मसूरिकारोगाकान्तस्य, यस्य, एतानि-कासादीनि लक्षणानि दृश्यन्ते तत्र भेषजं न दद्याद् दुःसाध्यत्वादित्यर्थः । उपद्रवानाह-कूपरे मणि- बन्धऽसफलके वा शोथः, दुश्चिकित्स्यः असाध्य इत्यर्थः ।। २७-३१ ॥ इति सुधायां मसूरिकानिदानम् ।। अथ पञ्चपञ्चाशत्तमं क्षुद्ररोग-निदानम् ॥ ५५ ॥ अजगल्लिका-स्निग्धाः सवर्णा ग्रथिता नीरुजा मुद्गसन्निभाः। कफवातोत्थिता ज्ञेया बालानामजगल्लिकाः ॥१ क्षुद्ररोगाणां मसूरिकोत्पादकत्वान्मसूरिकाऽनन्तरं तुदरोगास्तिलकालक- प्रभृतयः । यदा-तुद्रास्तीक्ष्णा रोगा भग्निरोहिणीप्रभृतयः। अथवा क्षुद्राणां वालानां रोगाः क्षुद्ररोगा इति केचित् । चतुश्चत्वारिंशत् तुदरोगा अजगल्लि. काऽऽदयो भवन्ति, क्रमेण तानाह-स्निग्धा इत्यादिना ॥१॥ यवप्रख्या-यवाकारा सुकठिना ग्रथिता मांससंश्रिता । पिडका कफवाताभ्यां यवप्रख्येति सोच्यते ॥२॥ मन्त्रालजी-धनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् । अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम् ॥३॥ विवृता-विवृतास्यां महादाहां पक्कोदुम्बरसन्निभाम् । विवृतामिति तां विद्यात्पित्तोत्था परिमण्डलाम् ॥४॥ कच्छपिका-प्रयिताः पञ्च वा षड् वा दारुणाः कच्छपोपमाः। कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधौः ॥५॥ वल्मी-ग्रीवांऽसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः। का-प्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ॥६॥ मुसौरनेकैः सतितोदवद्भिर्विसर्पवस्सति चोचताः। वल्मीकमाहुर्मिषजो विकारनिष्प्रस्यनीक चिरज विशेषात् ॥१॥