पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- पित्तमसूरिकाःरक्ताः पीताः सिताः स्फोटाः सदाहास्तीव्रवेदनाः । भवन्त्यचिरपाकाच पित्तकोपसमुद्भवाः॥६॥ विभेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा। मुखपाकोऽक्षिरागश्च ज्वरस्तीवः सुदारुणः ॥७॥ रकमसूरी-रकजायां भवन्येते विकाराः पित्तलक्षणाः ॥ ८॥ कफमसूरिकाः कफप्रसेकः स्तमित्यं शिरोरुग गात्रगौरवम् । हृल्लासः सारुचिनिद्रातन्द्राऽऽलस्यसमन्विताः॥९॥ श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः । मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः ॥१०॥ निर्दोषम- नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः । सूरिका:-चिरपाकाः प्रतिस्त्रावाः प्रभूताः सर्वदोषजाः ॥११ ॥ कण्ठरोधारुचिस्तम्भप्रलापारतिसंयुताः। दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः॥१२॥ सान्निपातिकलक्षणमाह-नीला इत्यादि । नीला:पचापवर्णप्रतिमाः। चिपिटवर्णाः पृथुकाकाराः । कण्ठरोधः कण्ठग्रहः। प्रलाप असंवद्ध- भाषणम् ॥ ११.१२ ॥ रोमान्तिकाः रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः। कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः ॥१३॥ स्वस्थम- तोयबुबुदसङ्काशास्त्वग्गतास्तु मसूरिकाः । सूरिका:-स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं सवन्ति च ॥१४॥ रसादिसप्तधातुगताना मसूरिकाणां लक्षणानि प्रविवक्षुराह-तोयबुद् बुदेत्यादि । तोदबुबुदसंकाशाम् जलबुबुदसमानाः। त्वग्गता रसगताः। शेषं सुगमम् ॥१४॥ रक्तस्था:- रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः । साध्या नात्यर्थदुष्टाश्च भिन्ना रक्त स्रवन्ति च ॥१५॥ मांसस्थाः-मासस्थाः कठिनाः स्निग्धचिरपाका घनत्वचः । गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः ॥१६॥ मेदःस्थाः-मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः। घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ॥ १७ ॥ मजस्थाः-संमोहारतिसंतापाः कश्चिदाभ्यो विनिस्तरेत । क्षुद्रा गात्रसमा रुक्षाश्चिपिटाः किशिदुषताः॥१८॥