पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ सुधोपेते माधवनिदाने- पित्तात्मकोऽअनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव ॥ २५ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्विपञ्चाशत्तम विसर्प-निदानं समाप्तम् ॥ १२ ॥ साध्यत्वादिकमाह-सिद्धयन्तीत्यादि । वातादिकृता विमर्पाः सिद्धयन्ति। सर्वात्मकः - सान्निपातिकः, क्षतजश्च न सिद्धिम् , एति-गच्छति, पित्तात्मको. अनवपुश्च, अग्निविसर्पाख्यो न साध्यः। मर्मसु जाताः सर्व एव वीसाः कृ. च्छ्रसाध्या भवन्ति ॥ २५॥ इति सुधायां विसर्पनिदानम् । अथ त्रिपश्चाशत्तमं विस्फोटनिदानम् ॥५३॥ हेतुः- कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजोर्णाध्यशनातपैश्च । तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु ॥१॥ तत्सम्प्राप्ति:-त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च । घोरान् कुर्वन्ति विस्फोटान सर्वाञ् ज्वरपुरःसरान् ॥ २ ॥ कट्वम्लादिभिर्हेतुभिस्तथा, ऋतुदोषेण-ऋतुविपर्ययेण च पवनादयो दोषाः कुप्यन्ति । ते-दोषाः, त्वचमाश्रित्य रक्तादीनि प्रदूष्य च घोरान् - दारुणान्, ज्वरपुरःसरान् सर्वान् विस्फोटान् कुर्वन्ति ॥ १-२॥ तत्स्वरूपम्-अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः। कचित् सर्वत्र वा देहे विस्फोटा इति ते स्मृताः ॥३॥ वातजः- शिरोरुक् शूलभूयिष्ठं ज्वरस्तृट् पर्वभेदनम् । सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ॥४॥ पित्तजः-ज्वरदाहरुजास्रावपाकतृष्णाभिरन्वितम् । पित्तलोहितवर्ण च पित्तविस्फोटलक्षणम् ॥५॥ छर्घरोचकजाड्यानि कण्डूकाठिन्यपाण्डताः। अवेदनश्चिरात्पाको स विस्फोटः कफात्मकः ॥ ६ ॥ इन्द्रजाः- वातपित्तकृतो यस्तु कुरुते तीव्रवेदनाम् । कण्डूस्तमित्यगुरुभिर्जानीयात्कफवातिकम् । कण्डूर्दाहो ज्वरश्छदिरेतैस्तु कफत्तिकः ॥७॥ कफज:-