पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कफजः- १७२ सुधोपेते माधवनिदाने- दृष्य दोषाश्च-रक्त लसीका त्वा मांसं दृष्य, दोषास्त्रयो मलाः । विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः ॥ ४ ॥ दोषदृष्यसंग्रहमाह-रक्तमित्यादि । रक्त-शोणित, लसीकाजलं, त्वक रसः, मांसम् , एतानि दूष्याणि । त्रयो मला:- वातादयो दोषाः । सप्त धा. तवः-रसासमासमेदोऽस्थिमज्जशुक्राणि, हेतवो विसर्पोत्पत्ती, भवन्तीति शेषः । विसपों हि क्व चिदन्त बहिर्जभेदेनापि वर्णितस्तथा हि-मर्मोपघा. तात् संमोहादयनानां विघटनात् । तृष्णाऽतियोगादू वेगानां विषमञ्च प्रवर्तनात् ॥ विद्याद् विसर्पमन्तर्जमाशु चाग्निबलक्षयात् । अतो विप. र्ययाद् बाह्यमन्यद् विद्यात्स्वलक्षणैः । इति ॥ ४ ॥ वातिकः-तत्र वातास वीसो वातज्वरसमन्यथः । शोथस्फुरणनिस्तोदभेदायासात्तिहर्पवान् ॥६॥ पैत्तिकः- पित्ताइद्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः॥६॥ कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् । त्रिदोषज:-सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ॥ ७॥ द्वन्दजा विसर्पा:- तत्राग्नि-'वातपित्ताज्ज्वरच्छर्दिमूऽितीसारतृभ्रमैः । विसर्पः-प्रन्थिभेदाग्निसदनतमकारोचकैयुतः॥८॥ करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् । यं यं देश विसर्पश्च विसर्पति भवेत् स सः॥९॥ शान्ताङ्गारा सितो नीलो रक्तो वाऽऽशु च चीयते । अग्निदग्ध इव स्फोटः शीघ्रगत्वाद् द्रुतं स च ॥१०॥ मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः । व्यथतेऽङ्ग हरेत् संज्ञां निद्रां च धासमीरयेत् ॥११॥ हिकां च स गतोऽवस्थामीदृशी लभते न ना। कचिच्छारतिग्रस्तो भूमिशय्याऽऽसनादिषु ॥ १२ ॥ चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् । दुष्प्रबोधोऽश्नुते निद्रां सोऽभिवीसर्प उच्यते ॥ १३ ॥ भग्निविसर्पमाह-वातपितादित्यादि । अयं हि वातपित्तनो ज्वरादिमि- युतश्च भवति, सर्वमहं दीसागरावकोणवत्-प्रबलितागारावच्छन्नवत् , २ -