पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विसर्पनिदानम् ५२। १७१ श्लैष्मिकरूपं कनिष्ठीवनगौरवजडताऽरुचिशीतसादवमिलेपाः । दहनबलसादकण्डूनिद्राश्चिह्न कफानुगते ॥१०॥ वातकफरूपम्-उभयमिदमेव चिह्न मारुतकफसंभवे भवत्यम्ले ॥ ११ ॥ कफपित्तरूपम्-(तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ॥ भ्रमो मूछाऽरुचिश्छदिरालस्यं च शिरोरुजा। प्रसेको मुखमाधुर्य श्लेष्मपित्तस्य लक्षणम् ॥ १२ ॥ इति श्रीमाधवकरविरचिते माधवनिदान एकपञ्चाशत्तममम्लपित्त- निदानं समाप्तम् ॥ ११॥ दोषान्तरसंसर्ग वक्तुकाम पाह-सानिलमित्यादि । मतिमान् बुद्धि- मान् , वैद्यः सानिलं सकर्फ सानिलकर्फ तद्-अम्लपित्तं, दोषलिङ्गन - वातादिदोषलक्षणेन लक्षयेद् - जानीयात्, हि = यतः, तद्-अम्लपित्तं, भिष. ड्मोहकर = वैद्यभ्रान्तिजनकम् । ऊर्धाधः प्रवर्त्तमानत्वेन छर्घतीसाराभ्यां स. काशाद् भेदस्य दुर्शेयतया भिषङ्मोहजनकत्वम् ॥ ७-८ ॥ इति सुधायामम्लपित्तनिदानम् । अथ द्विपञ्चाशत्तमं विसर्प-निदानम् ॥ १२ ॥ ये-लवणाम्लकटूष्णादिसंसेवादोषकोपतः। विसर्पः सप्तधा जेयः सर्वतः परिसर्पणात् ॥१॥ निदानमाह-लवणेत्यादि । लवणाम्लादिभिविसर्पः सप्तधा भवति । निरु- क्तिमाह-सर्वतः परिसर्पणादिति । सर्वतः परिसर्पणात्परिसर्पः-विविध सर्पणाद् विसर्पः। यदुक्तं चरके-"विविधं सर्पति यतो विसर्पस्तेन स स्मृतः । परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात् ॥ इति ॥१॥ विसर्पभेदाः-पृथक् त्रयस्त्रिभिश्चैको विसपा द्वन्द्वजास्त्रयः । वातिकः पैत्तिकाव कफजः सान्निपातिकः ॥२॥ चत्वार एते, वीस वक्ष्यन्ते द्वन्द्वजास्त्रयः । आमेयो वातपित्ताभ्यां, ग्रन्थ्याख्यः कफवातजः । यस्तु कर्दमको घोरस पित्तकफसंभवः ॥३॥ संख्यामाह-पृथगित्यादि । वातिकः पेत्तिकः श्लैष्मिकलयः। सात्रिपा- सिक एकः, इन्द्रजात्रय एवं सप्तथा भवति ॥२-३॥