पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- अम्लपित्तनिदानम् ११ । अथ पञ्चाशत्तमं शीतपित्तोदर्दकोठनिदानम् ॥ ५० ॥ हेतुसम्प्राप्ती-शीतमारुतसंस्पर्शात्प्रदुष्टौ कफमारुतौ। पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः॥१॥ निदानमाह-शीतमारुतेत्यादि । सम्भूय एकत्रीभूय, बहिरन्तः- बहि:-त्वचि, अन्तः-रक्तादो, विसर्पतः- प्रसरतः ॥ १ ॥ पूर्वरूपं-पिपासाऽरुचिहलासदेहसादाङ्गगौरवम् । रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् ॥२॥ पूर्वरूपमाह-पिपासेत्यादि । रक्तलोचनता=व्याधेर्माहात्म्यात् । तेषां शीतपित्तोदर्द कोठानाम् । पूर्वरूपस्य लक्षणं- स्वरूपम् ॥ २ ॥ उदर्दलक्षणं-वरटीदष्टसंस्थानः शोथः संजायते बहिः । सकण्डूस्तोदबहुलश्छदिज्वरविदाहवान् ॥३॥ उदर्द मिति तं विद्याच्छीतपित्तमथापरे । वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ॥ ४ ॥ उदर्दस्य सोत्सश्च सरागैश्च कण्डूमद्भिश्च मण्डौः। लक्षणान्तर-शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ॥६॥ कोठमाह-असम्यग्वमनोदीर्णपित्तश्लेष्माननिग्रहः । मण्डलानि सकण्डूनि रागवन्ति बहूनि च । उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ॥६॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चाशत्तमं शीतपि- तोदर्दकोठ-निदानं समातम् ॥ ५० ॥ शीतपित्तोदर्दयोर्विशेषमाह-वाताधिकं शीतपित्तं कफाधिक उदर्द इति॥३-६॥ इति सुधायां शीतपित्तोदर्द कोठनिदानम् । अथैकपश्चाशत्तममम्लपित्त-निदानम् ॥ ११ ॥ हेतुः- विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम् । पितं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः॥१॥ निदानपूर्वकमम्लपित्तरूपं विभणिषुराह-विरुखेत्यादि। विरुद्ध-क्षीर- मत्स्यादि, दुष्ट-कुथितमन्न, पित्तप्रकोपिपानं सुराऽऽदिकम् , मन्नं -माषा- दिकम् , एवमादिभुजो जनस्य स्वहेतूपचित-स्वकारणकदम्पैः सनयमागत,