पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ सुधोपेते माधवनिदाने- वातश्लेष्मोअवाः, श्लेष्मपित्तानुशतारुपी। पुण्डरीक सविस्फोटं पामा चर्मदलं तथा ॥ ३५ ॥ सर्वैः स्यात्काकणं, पूर्वत्रिकं दुद्रु सकाकणम् । पुण्डरीकय॑जिह्वे च महाकुष्ठानि सस तु ॥ ३ ॥ श्वित्रंकिलासं च-कुष्ठैकसम्भवं श्चिनं किलासं वाऽरुणं भवेत् । निर्दिष्टमपरिस्रावि विधातूनवसंश्रयम् ॥३७॥ किलासमाह-कुष्ठैकसम्भवमित्यादि । कुष्टेन सह एकः समानो विरु. द्धाशनादि सम्भवो निदानं यस्य तत्तथा । अन्यत्र चरकादौ तु हेतुर्विशेषोऽप्य- स्य वय॑ते यथा-वांस्यतथ्यानि कृतघ्नभावो निन्दा गुरूणां गुरुधर्षण च । पापक्रिया पूर्वकृतञ्च कर्म हेतुः किलासस्य विरोधि चान्नम् ॥ इत्यादि ।। ३३-३७॥ वातादिभे वातादूक्षारुणं पित्तात्तानं कमलपत्रवत् । देनकिलास-सदाहं रोमविध्वंसि कफाच्छ्वेतं धनं गुरु ॥ ३८॥ लक्षणानि-सकण्दुरं क्रमाद्रक्तमांसदासु चादिशेत् । वर्णनैवेगुभयं कृच्छं तच्चोत्तरोत्तरम् ॥३९॥ साध्यासा- अशुक्लरोमाबहुलमसंश्लिष्टमथो नवम् । ध्यश्वित्रम्-अनमिदग्धज साध्यं चित्रं वयंमतोऽन्यथा ॥ ४० ॥ असाध्यं- गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् । किलासं-वर्जनीयं विशेषेण किलास सिद्धिमिच्छता ॥४१॥ संक्रामक-प्रसङ्गादात्रसंस्पर्शान्निध्यासात् सहभोजनात् । रोगाः-एकाशय्याऽऽसनाच्चैव वस्त्रनाल्यानुलेपनात् ॥ ४२ ॥ कुष्ठ ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च सक्रामन्ति नराचरम् ॥ ४३ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने एकोनपञ्चाशत्तम कुष्ठ-निदानं समाप्तम् ॥ ४९ । कुष्ठस्य संसर्गजप्रसङ्गेन निखिलानेव संसर्गजान् रोगानाह-प्रसङ्गादि- त्यादि । प्रसङ्गो-मथुन, तत्कृताद् , गात्रसंस्पर्शात् । निःथासात्-मुख- मारुतात् , शोषो यक्ष्मा, औपसर्गिकरोगा: - मसूरिकाप्रभृतयः, नरान्तर संक्रामन्ति-प्राविशन्ति ॥ ३८-४३ ।। इति सुधायां कुएनिदानम् । .