पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुष्ठनिदानम् ४९। संख्या-अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ॥६॥ त्रयो वातादयो दुष्टाः, त्वग रक्तं - त्वक् च रक्तं चेति समाहारः, मांस. मम्बु दूषयन्ति स वातादिसप्तकः कुठानां द्रव्यसंग्रह:-प्रत. सप्त एकादशैव च कुष्ठानि जायन्त इति । ननु-"रक्तं लसीका त्वयांसं दुष्यं दोषास्त्रयो- मलाः। विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः” इति वचनात् कुष्ठवि. सर्पयोः समानसामग्रीजन्यत्वादुभयोः को भेदः ? इति चेत्रोच्यते-कुष्ठ चिर. क्रियः स्थिरैरप्रबलरक्तपित्तदोषेरुत्पद्यते विसर्पस्त्वचिरविसर्पणशीलः प्रबलरक्त. पित्तरिति परस्परं भेदः ॥ ५-६॥ कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वः समागतैः । सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ॥ ७ ॥ कुष्ठानां त्रिदोषजत्वेऽपि दोषोल्वणभेदेन भेइमाकल्प्य सप्तधात्वमाह- पृथग्- वातादिभिस्त्रयः, द्वन्द्व-स्त्रयः । समागतः सन्निपातः, एका, एवं स- सत्वं जायते। व्यपदेशोऽधिकत्वतः-स्य दोषस्य यच्च प्राबल्यं तेनैव तस्य निर्देश इति भावः ।। ७ ।। पूर्वरूपम्- अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः । दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोतिर्भमः ॥८॥ वणानामधिकं शूलं शीघ्रोत्पत्तिश्विरस्थितिः । रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ।। रोमहर्षोऽसृजः काये कुष्ठलक्षणमग्रजम् ॥ ९ ॥ पूर्वरूपमाह-अतिश्लक्षणेत्यादि । स्वापः- स्पर्शहानिः । निमित्तेऽ- ल्पेऽतिकोपन - स्वल्पेऽपि कारणेऽधिकप्रकोपः। रोमहर्षः रोमाञ्चः। अ- गूज-पूर्वरूपम् ॥ ८-९॥ सप्तमहाकुष्ठानि तत्र वातज कापालकुष्ठं- कृष्णारुणकपालाभ यक्षं परुषं तनु । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥१०॥ भोदुम्बरकु-सदाहरागकण्डूभिः परीतं रोमपिआरम् । ठं (पित्तज)-उदुम्बरफलाभार्स कुष्ठमौदुम्बरं वदेत् ॥११॥ मण्डलकुष्ठं श्वेत रक्तं स्थिर स्त्यानं स्निग्धमुत्सनमण्डलन् । (कफज)- कृच्छ्रमन्योन्यसंयुक्तं कुष्ठ मण्डलमुच्यते ॥ १२ ॥ 1