पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ सुधोपेते माधवनिदाने- असाध्य तन्त्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः। शुका:- विद्रधिश्च न सिद्धयन्ति ये च स्युस्तिलकालकाः ॥ १६ ॥ इति श्रीमाधवकरविरचते-माधवनिदानेऽष्टचत्वारिंशं शूक- दोषनिदानं समाप्तम् ॥ ४८ ॥ दोषविशेषेण सर्षपिकाऽऽदयस्तिलकालकान्ता अष्टादश शुकदोषभेदा वणि- सास्तेष्वसाध्यानाह-तत्रेत्यादिना । तत्र शूकदोषेषु, मांसार्बुदो-मांसपाकः- विद्रधिस्तिलकालकाः, एते न सिद्धयन्ति ॥ २-१६ ।। इति सुधायां शूकदोषनिदानम् । अथैकोनपञ्चाशत्तमं कुष्ठ-निदानम् ॥ ४६॥ कुष्ठाना हेतु-विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च । सम्प्राप्ती-भजतामागतां छदि वेगांश्चान्यान् प्रतिक्षताम् ॥१॥ व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् । धर्मश्रमभयार्तामा दुतं शीताम्बुसेविनाम् ॥२॥ अर्जार्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् । नबानदधिमत्स्यातिलवणाम्लनिषेविणाम् ॥३॥ माषमूलकपिष्टानतिलक्षीरगुडाशिनाम् । व्यवायं चाप्यजीणेऽन्ने निद्रां च भजतां दिवा ॥ विप्रान् गुरून धर्षयतां पापं कर्म च कुर्वताम् ॥ ४॥ अष्टादशत्वसंख्यासाधाच्छूकदोषानन्तरं कुष्ठनिदानमाह-विरोधीनी. त्यादि । विरोधीनि-अन्नपानानि-क्षीरमत्स्यादनि, द्रवस्निग्धगुरूणि च द्रव्याणि भजताम् - प्रश्नताम् , आगताम् उपस्थिता, छर्दि-वमि, तथाऽ न्यान् वेगान-मूत्रपुरीषादीनां, प्रतिघ्नताम् । धर्मश्रमभयानां दुर्त झटिति, शीताम्बुसेविनां शीतलजलपायिना, पञ्चकर्मापचारिणां-वमनविरेचनन- स्यनिरूहणानुवासनानि पञ्चकर्माणि कृत्वाऽपथ्यशीलिनाम् । नवान्नदधि- मत्स्यानि-प्रतिशब्दो नवान्नादिभिः प्रत्येकमन्वेति । विप्रान् गुरून् धर्ष. यतां-तिरस्कुर्वता, पापं कर्म च कुर्वतो-गोब्राह्मणवधभ्रूणहत्याऽऽदि महापापकारिणाम् ॥ १-४ ॥ तदोषदृष्य वातादयायो दुष्टास्त्वग्रक्तं मांसमम्बु च । गणः- दूषयन्ति स कुष्ठानां ससको द्रव्यसंग्रहः ॥६॥ "