पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूकदोषनिदानम् ४८॥ १६२ सर्षपिका-गौरसर्षपसंस्थाना शूकदु नहेतुका। पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ॥२॥ अष्ठीलिका- कठिना विषमैर्भुग्नैर्वायुनाऽष्टीलिका भवेत् । ग्रथितं च-- -शूकैर्यत् पूरितं शचद् अथितं नाम तत् कफात् ॥ ३ ॥ कुम्भिका- कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा। ऽलजी च- -तुल्यजां त्वलजी विद्याद्यथाप्रोक्ता विचक्षणः ॥ ४ ॥ मृदितं संमूढ-मृदितं पीडितं यच्च संरब्धं वातकोपतः । पिडिका च-पाणिभ्यां भृशसंमूहे संमृढपिडका भवेत् ॥६॥ अधिमन्थः-दीर्घा बह्वयश्च पिडका दीर्यन्ते मध्यतस्तु याः। सोऽधिमन्थः कफासुग्भ्यां वेदनारोमहर्षकृत् ॥६॥ पुष्करिका-पिडका पिडकाव्याशा पित्तशोणितसम्भवा । पनकर्णिकसंस्थाना ज्ञेया पुष्करिका तु सा ॥७॥ स्पर्शहानि-स्पर्शहानि तु जनयेच्छोणितं शूकदूषितम् । रुत्तमा च-मुद्गमाषोपमा रका रक्तपित्तोद्भवा तु या॥ व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तजा ॥ ८॥ शतपोनक- छिद्रेरणुमुौलिङ्ग चितं यस्य समन्ततः । स्क्पाकश्च-वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः । ॥९॥ वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ॥ १० ॥ शोणिताचुदः कृष्णैः स्फोटः सरक्ताभिः पिडकाभिनिपीडितम् । यस्य वास्तुरुजश्चोगा ज्ञेयं तच्छोणितार्बुदम् ॥ ११ ॥ मांसार्बुदः-मांसदोषेण जानीयादबुद मांससम्भवम् । मांसपाकः-शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः। विधात्तं मांसपार्क तु सर्वदोषकृतं भिषक् ॥ १२ ॥ विधिः-विद्रधिं सन्निपातेन यथोक्तमिति निदिशेत् ॥ १३ ॥ तिलकालका:-कृष्णानि चित्राण्यथवा शुकानि सविषाणि वा । पातितानि पचन्त्याशु मेद निरवशेषतः ॥ १४ ॥ कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः । सन्निपातसमुत्थास्तु तान् विद्यात्तिलकालकान् ॥१९॥