पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- लिङ्गवतिः अङ्कुरैरिव सङ्घातैरुपयुपरि संस्थितौः । (लिङ्गाशोवा)-क्रमेण जायते सिस्ताम्रचूडशिखोपमा ॥३॥ कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा। ( सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा।) लिङ्गवत्तिरभिख्याता लिङ्गार्श इति चापरे ॥ ॥ सुश्रुने क्व चित् त्रीणामप्युपदेशः पठ्यते यथा--- (मेढ़सन्धौ व्रणाः के चित् के चित् सर्वाश्रयास्तथा। कुलत्थाकृतयः के चित् के चित् पद्मदलोपमा ॥८॥ रुजादाहार्तिबहुलाः कृष्णास्तोदसमन्विताः । शोधं के चिद् विसर्पन्ति शनैः के चित्तथाऽपरे । खीणां पुंसां च जायन्त उपदंशाः सुदारुणाः) ॥९॥ इति श्रीमाधवकरविरचिते माधवनिदाने सप्तचत्वारिंशमुपदेश- निदानं समाप्तम् ॥४८॥ एकस्थानत्वेन लिङ्गवत्तिमाह-अङ्कुरैरित्यादि । अङ- मांसप्ररोहै:, ताम्रचूडशिखोपमा - कुक्कुटचूडानुकारिणी, सन्धौ-लिङ्गरन्धसन्धौ, वत्ति- र्जायतेऽतो लिङ्गवत्तिरिति ख्याता लिङ्गार्श इति वा संज्ञाऽन्तरं भजति ।। २-७॥ इति सुधायामुपदंशनिदानम् । . अथाष्टचत्वारिंशं शुकदोष-निदानम् ॥ ४॥ कारणं अक्रमाच्छेफसो वृद्धि योऽभिवाञ्छति मूढधीः । संख्या च-व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ॥१॥ शूकदोषनिदानमाह-अक्रमादित्यादि । अक्रमात् क्रममनादृत्य (ल्य. ब्लोपे पञ्चमी ) शेफसः = मेदस्य बृद्धिं यः, मूढधी:-निर्बुद्धिः, अभिवाम्छति तस्य दश चाष्टौ शूकजाः- शूकदोषनिमित्ता व्याधयो जायन्त इति । शुको- हि जलशूको विषप्राणिविशेषः। तथा वात्स्यायनादिकामशास्त्रादिप्रणेतृप्रतिपा- .. दितो लिङ्गवृद्धिकरो ोगः शूक उच्यते। यथा-भल्लातकास्थिजलशूकमया. जपत्र-मन्तर्विदा मतिमान् सह सैन्धवेन । एतदू विरूडबृहतीफल- तोयपिष्ट-मालेपन महिषविविमलीकृते। स्यूल महत्तरतुरङ्गम- सुल्पमाशु-शेकं करोत्यभिमत नहि संशयोऽस्ति ॥१॥