पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. । सुधोपेते माधवनिदाने- नाडीविशेषत्वाद् भगन्दरमाह-गुदस्येति । गुदस्य-पायोः, पार्वतो. दयङ्गुले क्षेत्रे, अत्तिकृत वेदनाकारिणी, पिडका भिन्ना-नवन्ती, सती भग- न्दर इति शेयः । भगशब्दो गुदवस्तिदेशयोरप्युपलक्षकः, भगस्य दारणाद् भग- न्दर इति संशा । तथा च भोजः-भगं परिसमन्ताच्च गुदं वस्ति तथैव च । भगवहारयेदू यस्मात्तस्माज्ज्ञेयो भगन्दरः) । इति ॥१॥ पूर्वरूपं--(कटीकपालनिस्तोददाहकण्डूरुजाऽऽदयः । भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे)॥२॥ शतपोनकः ( वातजः)- कषायोस्त्वतिकोपितोऽनिलस्वपानदेशे पिडकां करोति याम् । उपेक्षणात् पाकमुपैति दारुणं रुजाच भिन्नाऽरुणफेनवाहिनी॥ तत्रागमो भूत्रपुरीषरेतसां धणरनेकै शतपोनकं वदेत् ॥३॥ भगन्दरविशेषं शतपोनकमाह-कषायेत्यादि । कषायादिभोजनः प्रकुपि- तोऽनिलः, अपानदेशे-पायुभागे, यो पिडको करोति, उपेक्षणात सा दा- रुण-भयङ्कर, पाकम् , उपैति गच्छति, सा भिन्ना-विदीर्णा, रुजा-वे. दनाऽन्विता, रुजाशब्द अर्श प्रायजन्तः । अरुणफेनवाहिनी-रक्तवर्णफेन- स्राविणी, तत्र मूत्रादीनामागमश्च भवति। अनेकणैः शतपोनक तं वदेत् शतपोनकः (चालिनीति लोके ) अनेकवणरित्यत्रोपलक्षणे तृतीया ॥ २-३ ॥ उष्ट्रशिरोधरः (पित्तजः)- प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदाश्रिताम् । तदाऽऽशुपाकाऽहिमपूतिवाहिनी भगन्दर तूष्ट्र शिरोधरं वदेत् ॥४॥ उष्टग्रीवमाह-प्रकोपणैरित्यादि । प्रकोपणैः पित्तप्रकोपजनकैः, अहि- मपूतिवाहिनीम् - अशिशिरदुर्गन्धस्राविणीम् , उष्ट्रशिरोधरमिति पिडकाव- स्थागतगलवक्रत्वेन क्रमेलकाकारत्वं, तेप्नोटग्रीवेति संशा ॥४॥ परिनावी कण्यनो घनत्रावी कठिनो मन्दवेदनः । (कफज:)-श्वेतावमासः कफजः परिनावी भगन्दरः ॥ ५॥ शम्बूकावतः-बहुवर्णरुजाखावा पिडका गोस्तनोपमा। शम्कावर्तववादी शम्बूकावसको मतः॥६॥ शम्बूकावर्तमाह-हुवर्णेत्यादि । पूर्णनगः शम्बूकावपदावर्तनं वेदना दोषगतिविशेषाद् भवतीति शम्भूकावतः॥३॥