पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शारीरव्रणनिदानम् ४२॥ १५३ दुष्टवणरूप-पतिः पूयातिदुष्टासस्राव्युत्सङ्गी चिरस्थितिः। दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गाविपर्ययः ॥ ८॥ दुष्टव्रणलिङ्गमाह-पूतिरित्यादि । पूयातिदुष्टासनावी पूयेन सह दुष्ट रक्तस्रवतीति तथा,उत्सङ्गी-कोटरवान्। चिरस्थितिः दीर्घकालव्यायी २-८ शुद्धव्रणरूपं-जिबातलाभोऽतिमृदुःश्लक्ष्णः स्निग्धोऽल्पवेदनः । सुव्यवस्थो निरास्नाकः शुद्धो व्रण इति स्मृतः॥९॥ शुद्धव्रणलिङ्गमाह-जिह्वत्यादि । जिह्वातलामा जिह्वातलस्य आभा इवाभा यस्य स तथाभूतः । सुव्यवस्थः-उत्सन्नोत्सङ्गित्ववर्जितः । निरानाव: सावरहितः ॥९॥ रुघमाणरूप-कपोतवर्णप्रतिमा यस्यान्ताः क्लेदबर्जिताः । स्थिरा पिढकावन्तो रोहतीति तमादिशेत् ॥१०॥ रोहवणलिङ्गमाह-कपोतेत्यादि । कपोतवर्णप्रतिमाः पारावतवर्णतु- ल्याः, पाण्डधूसरा इति यावत् ॥१०॥ सम्यगूढरूप-रूढवनिमग्रन्थिमशूनमरूज व्रणम् । त्वक्सवर्ण समतलं सम्यमूढ़ विनिर्दिशेत् ॥११॥ कष्टसाध्याः-कुष्ठिनां विषजुष्टानां शोषिणा मधुमेहिनाम् । व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि भ्रणे व्रणाः । वसा मेदोऽथ मज्जानं मस्तुलुङ्ग च यः स्ववेत् ॥ १२ ॥ आगन्तुजः साध्यो दोषजोऽसाध्यश्च- आगन्तुजो व्रणः सिद्धयेन सिद्धयेद्दोषसंभवः ॥ १३ ॥ मुमूर्षुद्रणाः-मघागुज्यिसुमनःपचन्दनचम्पकैः। सगन्धा दिव्यगन्धा मुमूर्षणां प्रणाः स्मृताः ॥१४॥ त्याज्या ये च मर्मस्वसम्भूता भवन्त्यत्पर्थवेदनाः। दयन्ते चान्तरत्यर्थे पहिल्शीताश्रये प्रणाः । दान्ते बहिरत्यर्थ भवन्त्यन्तश्च शीतलाः ॥१५॥ प्राणासक्षयश्वासकासारोचकपीडिताः। प्रवृद्धापरुधिरा व्रणा येषां च मर्मसु ॥१६॥ क्रियाभिः सम्यगारब्धा नसिध्यन्ति च येवणाः। पर्जयेदपितान् वैया संरक्षवात्मनो पशः॥१७॥ व्रण:-