पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। विद्रधिनिदानम् ४०॥ १४९ कफजः-शरावसदृशः पाण्डः शीतः स्निग्धोऽल्पवेदनः । चिरोत्थानप्रपाकश्च विद्रधिः कफसम्भवः ॥६॥ भानाववर्ण-तनुपीतसिताश्चषामाखावाः क्रमतः स्मृताः॥७॥ त्रिदोषजः-नानावर्णरुजात्रावो घाटालो बिषमो महान् । विषम पच्यते चापि विधिः सानिपातिकः ॥८॥ सान्निपातिकमाह-नानेत्यादि। नानावर्णरुजाखावा-नाना अनेक- विधाः, वर्णाः कृष्णपीतादयः,रुजातोदादयः, आस्रावाः,सनुपीतसिताश्च यस्य स तथाभूतः । घाटाला घाटा अस्यास्तीति घाटाला प्रत्युन्नतायः ॥३-८॥ क्षतजः-तैस्तर्भावरभिहते क्षते वाऽपथ्यकारिणः । क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥९॥ ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः । आगन्तुविद्रधिोष पित्तविधिलक्षणः ॥ १०॥ आगन्तुमाह-तैस्तैरित्यादि । तैस्तै वैः काष्ठलोष्ठप्रस्तरादिभिः, अभि. हते-क्षते वा, अपथ्यकारिणो वायुना विसतःम्प्रेरितः, क्षतोष्मा सरक्त पि- तम् , ईरयेत् सञ्चालयेत् ॥ ९-१०॥ रक्तजः-कृष्णस्फोटावृतः श्यावस्तीवदाहरुजाकरः । पित्तविधिलिङ्गास्तु रक्तविद्रधिरुच्यते ॥११॥ अन्तर्विद्रधिः-पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् । बल्मीकवत् समुनद्धमन्तः कुर्वन्ति विद्रधिम् ॥ १२ ॥ भन्तःस्था- गुदे बस्तिमुखे नाभ्यां कुक्षौ वक्षणयोस्तथा । नानि-वृक्कयोः प्लीहियकृति हदि वा क्लोम्नि वाऽप्यथ ॥१३॥ तेषामुक्कानि लिङ्गानि बाह्यविद्रधिलक्षणैः । अधिष्ठानविशेषेण लिशृणु विशेषतः ॥१४॥ गुद-बस्ति-नाभि-कुक्षिजातानां रूपाणि- गुदे वातनिरोधश्च, बस्तौ कृच्छ्राल्पमूत्रता। नाभ्यां हिक्का तथाऽऽटोपः, कुक्षौ मारुतकोपनम् ॥१५॥ वक्षणकृषकप्लीहजाना रूपाणि- कटीपृष्ठपहस्तीवो वक्षणोत्ये तु विधौ। वृक्ष्योः पार्श्वसंकोच प्लीड्युच्छ्वासावरोधनम् ॥ १६ ॥