पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ सुधोपेते माधवनिदाने- पित्तजमाइ-दन्वद्यते-अतिशयेन दहति । धूप्यति-धूमायत इव, पापच्यते-भृशं पचति, प्रज्वलतीव-ज्वलन्भस्मीभवतीव । श्लेष्मजमाह- पाषाणव-मस्तरवत्, संहननोपपत्रः कठिनः ॥१३-१४ ॥ मैदोज-शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डयुतोऽरजश्च । ग्रन्थिः मेवाकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ॥१५॥ मेदोजमाह-शरीरेत्यादि । शरीरवृद्धिक्षयबृद्धिहानिः शरीरस्य बृद्धिक्षयाभ्यां वृद्धिहानी यस्य स तथा। शरीरबृद्धौ यम्य बृद्धिः शरीरहानी यस्य हानिरित्यर्थः । पिण्याकसर्पिःप्रतिमपिण्याकः तिलकल्कः, सर्पिः= वृतम् ॥१५॥ सिराज-व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु सिराप्रतानम् । ग्रन्थिः-सकुच्य संपिण्ड्य विशोष्य चापि प्रन्थि करोत्युनतमाशुवृत्तम्॥१६॥ कष्टसाध्योऽसाध्यश्च ग्रन्थिः- ग्रन्थिः सिराजः स तु कृष्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्वलश्च । स चारुजश्चाप्यचलो महांश्च मोत्थितश्चापि विवर्जनीयः ॥१७॥ अर्बुद-गात्रप्रदेश क चिदेव दोषाः संमूच्छिता मांसमसक् प्रदूष्य । रोगः-वृत्तं स्थिरं मन्दरुज महान्तमनल्पमूलं चिरबृद्धयपाकम् ॥१८॥ कुर्वन्ति मांसोच्छ्यमत्यगाधं तदर्बुद शास्त्रविदो वदन्ति । वातेन पित्तन कफेन चापि रक्तन मांसेन च मेदसावा। तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति॥१९॥ भवंदमाह-गात्रप्रदेश इत्यादिना । क्वचिदेव-मनियतदेशे, संमूच्छिताः= प्रवृद्धा दोषाः, मांसमसक् प्रदूष्य, वृतं वर्तुलम् । अत्यगाधं-दूरानुप्रविष्टम् , मांसोच्छ्रयं - मांसपिण्ड, कुर्वन्ति तदर्बुदं वदन्ति शास्त्रविदः ॥ १८-१९॥ रक्तजार्बुदा दोषः प्रदुष्टो रुधिरं सिराश्च साच्य सम्पिण्डय ततस्त्वपाकम् । सास्वावमुन्नाति मांसपिण्ड मांसाहुरैराचितमाशुवृद्धम्॥२०॥ करोत्यजत्रं हधिरप्रवृसिमसाध्यमेतदधिरात्मकं तु । रक्तक्षयोपद्वपीडितत्वात् पाण्डर्भवेदर्सवपीडितस्तु ॥२१॥ मांसाबंदः-मुष्टिप्रहारादिमिरर्दितेऽङ्गे मांसं प्रदुष्ट जनयेदि शोषम् । अवेदन स्निग्धमनन्यवर्णमपाकमामोपममप्रचास्यम् ॥२३॥ प्रतुष्टमासस्य नरस्य गाढमेतमवेम्मांसपरामणस्य । मांसाद स्वेतवसाध्यमुक्तम् .........