पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ सुधोपेते माधवनिदाने- एताबुपदवकरौ विशेषादग्निमारुतौ। एतौ तु दहतः स्थूलं वनदावो वनं यथा ॥ ७ ॥ असाध्य- मेदस्यतीव संवृद्ध सहसैवानिलादयः । स्थिति:-विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ॥ ८॥ अतिस्थूल- मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः । रूपम्- अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥ ९॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुर्विंश मेदोनिदान- समाप्तम् ॥ ३४ ॥ अतिस्थूलमाह-मेद इत्यादि। चलस्फिगुदरस्तनः-चलत् स्फिगुदर- स्तनं यस्य स तथाभूतः । अयथोपचयोत्साहः-अयथावन्मांसोपचय उत्सा- हश्च यस्य स तथा ॥९॥ इति सुधायां मेदोरोगनिदानम् । अथ पञ्चविंशमुदर-निदानम् ॥ ३५॥ हेतुः- रोगाः सर्वेऽपि मन्देऽसौ सुतरामुदराणि च । अजीर्णान्मलिनैश्वान्नैर्जायन्ते मलसंचयात् ॥१॥ अग्नौ मन्दे सति प्रायः सर्वे रोगा जायन्ते । उदराणि उदरस्थरोगाः उदरशब्दो हि उदरस्थपरस्तात्स्थ्याल्लक्षणया। मतरामजीर्णादिभिर्मलसञ्च- यादा जायन्ते । मला:-दोषाः, पुरीषादयश्च ॥१॥ सम्प्राप्ति:-रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सशिताः। प्राणान्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम् ॥२॥ सम्प्राप्तिमाह-रुध्वेति । सचिता:एकत्रस्थिताः, दोषाः स्वेदाम्बुवहा. नि स्रोतांसि रुद्ध्वा प्राणाग्न्यपानान् सन्दूष्य नृणामुदर जनयन्तीत्यन्वयः ॥२॥ सामान्य- आध्मानं गमनेऽशक्तिीर्बल्यं दुर्बलामिता । रूपम्-शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः । दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि ॥३॥ सामान्यरूपमाह-आध्मानमित्यादि । वातपुरीषयोः सङ्गः मलमूत्रयो- रवरोधः । सदनं-ग्लानिः ॥३॥ संख्या-पृथादोधैः समस्तैच कीहक्षतोदक। सम्भवन्त्युदराण्यष्टौ तेषां लिई पृथक् भणु ॥४॥