पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० सुधोपेते माधवनिदाने- त्वात-पित्तहरं मधुरादि मेदोजनकं, मेदानपणं च कटुकादि पित्तजनकमिति क्रियावैषम्यम् । महात्वयत्वादिति। मज्जादिगम्भीरधास्वपकर्षणेन बहुव्याप- त्तिकरत्वात् ॥ २-४ ॥ दोषदूष्य- कफः सपित्तः पवनाच दोषा, मेदोऽनशुक्राम्बुवसालसीकाः । विवेकः-मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ५ दोषदूष्यसंग्रहमाह-कफ इत्यादिना । सपित्तः कफः पवनश्चेति त्रयो. दोषाः। मेदःप्रभृतयः पिशितान्ता दश दूभ्याः, एभ्यो विंशतिमहा जायन्ते । असं रक्तम् , वसा-मांसस्नेहः, लसीका-उदकविशेषः, रसौजः-पत्र रस- श्चौजश्चेति इन्दः । पिशितं = मांसम् ॥५॥ पूर्वरूप- दन्तादीनां मलाढयत्वं प्रायूपं पाणिपादयोः । दाहश्चिक्कणता देहे तृड् स्वाद्वास्यं च जायते ॥६॥ पूर्वरूपमाह-दन्तादीनामित्यादि । आदिपदेन नेत्रकर्णादीनामपि संग्र- पाणिपादयोः करचरणयोः, दाहः, देहे चिक्कणता मेदोदुष्टेः । स्वा. द्वास्यं-मुखमाधुर्यम् ॥ ६॥ सामान्यरूपं सामान्य लक्षणं तेषां प्रभूताविलमूत्रता। भेदकल्पना च दोषदृष्याविशेषेऽपि तत्संयोगविशेषतः ॥ मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यत ॥७॥ सामान्यलिङ्गमाह-सामान्यमिति । प्रभूताविलमूत्रता-प्रभूतमूत्रत्वं दूष्यद्वधातुसम्बन्धात् । आविलमूत्रत्वं-दोषदृष्यसम्बन्धात् । दोषदृष्याविशे- पेऽपि-दोषाः वातादयः, दूष्याः=मेदाप्रभृतयस्तेषामविशेषेऽपि सामान्येऽपि, तत्संयोगविशेषतः तेषां दोषदृष्यादीनामुत्कर्षापकर्षकृतसंयोगभेदात् , मूत्र- वर्णादिभेदेन- मूत्रादिवर्णभेदं दृष्ट्वा समानानां हेतूनां भेदो मेहेषु कल्प्यते -विधीयते । यथा मृभाजनानां मृदादिकारणकदम्बस्याभेदेऽपि कुलालादिसं- योगभेदादुदचनादिप्रपञ्चभेदस्तथेति ॥ ७ ॥ सदकमेहः-अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् । मेहत्युदकमेहेन किचिदाविलपिच्छिलम् ॥ ८॥ श्लेष्मणः श्वेतादिभिर्दशविधैर्गुणैव्यस्तः समस्तैश्च योगादुदकमेहादिका. लमेहान्ता दश मेहाः श्लैष्मिका जायन्ते तानेव विवृणोति-अच्छमित्यादिना। माविलंबनम् ॥८॥