पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सुधोपेते माधवनिदाने उत्तरार्द्धम् । मथ त्रयसिंशं प्रमेह-प्रमेहपिडका-निदानम् ॥३३॥ प्रमेहहेतुः-आस्थासुख स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि । नवानपानं गुडवैकृतं च प्रमेहहेतुः कफकृञ्च सर्वम् ॥१॥ बस्तिगतविकारसाधादश्मर्यनन्तरं प्रमेहमाह-आल्यासुखमित्यादि। आस्थासुखम् आस्या “गदा" इति लोके, तस्याः सुखं तत्रोपविष्टस्य निर्व्या- पारत्वम् । ग्राम्यौदकानूपरसा:-ग्राम्या: छागादयः, औदकाः मत्स्यादयः, भानूपाः-महिषादयः, तेषां रसा=मांसरसाः । सर्वं कफत् -श्लेष्मबृद्धिकरं निखिलं वस्तु प्रमेहहेतुरस्तीति शेषः ॥१॥ कफपित्तमेह-मेदश्च मांसं च शरीरज च क्लेदं कफो बस्तिगतः प्रदूष्य । योः सम्प्राप्तिः करोति मेहान् समुदीर्णमुष्णस्तानेव पित्तं परिदृष्य चापि ॥२॥ वातमेहसं- क्षीणेषु दोषेष्ववकृष्य धातून प्राप्ति:- सन्दूष्य मेहान् कुरुतेऽनिलश्च ॥३॥ पृथग्दोषसंख्या साध्ययाप्यासाध्यविवेकश्च- साध्याः कफोस्था दश, पित्तजाः षड् याप्या, न साध्यः पवनाचतुष्कः । समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाञ्च यथाक्रम ते ॥ ४ ॥ कफपित्तवातजादिमेहानां क्रमतः सम्प्राप्ति दर्शयति मेद इत्यादिना । बस्तिगतः- मूत्राशयस्थः, कफो मेदोमांसादिकं प्रदूष्य श्लैष्मिकान् महान् करोति । एवं पित्तं तानेव मेदोमांसादीन् प्रदूष्य समुदीर्ण परिवृद्धं, सत् पत्ति- कान् मेहान् विदधाति । अनिलश्च क्षीणेषु-दुर्बलेषु दोषेषु धातून् , अव- कृष्य-मूत्राशयमार्गमानीय, मेहान् कुरुते, तत्र यथाक्रम कफोत्थादश साध्याः। पित्तजाः षड् याप्याः पवनाच्चतुष्को न साध्यः। साध्ययाप्यप्रत्या- ख्येयत्वे क्रमतो इतनुदाहरन्ति-समक्रियस्वादित्यादिना । समक्रियत्वात् - कफस्य दोषस्य दृष्यस्य च मैदोमांसादेः समानत्वात् कटुतिक्तादिक्रियायाः। विषमक्रियत्वादिति-पित्तस्य दूष्यस्य मेदोमांसादेश्च परस्पर विपरीतक्रिया