पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ सुधोपेते माधवनिदाने- ग्रहणम् - अङ्गुलीभ्यां धारणम् , आहरणञ्च-शस्त्रादिना पाटनपूर्वकमा. कर्षणम् ॥१२॥ शुक्राश्मरी तु-शुक्राश्मरी तु महतां जायते शुक्रधारणात् । महतामेव स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः । शोषयत्युपसंगृह्य शुक्र तच्छुकमश्मरी॥ बस्तिरुङमूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी ॥ तल्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ॥ १३ ॥ अश्मयुवावस्थाभेदेन शर्करारूपं प्राप्नोति तदाह-अश्मयेवेति। चकारात् सिकताऽपि भवतीति भावः ॥१३॥ शर्कराया लक्षणं संप्राप्तिश्च- पीडिते त्ववकाशेऽस्मिनश्मयेव च शर्करा । अणुशो वायुना भिना सा तस्मिन्ननुलोमगे ॥ १४ ॥ प्रश्मरीशर्क-निरति सहसा मूत्रे प्रतिलोमे निरुध्यते । रोपद्रवा-मूत्रनोतः प्रवृत्ता सा सक्का कुर्यादुपद्रवान् ॥१५॥ कथमश्मरी शर्करा भवतीति तदाह-अणुश इत्यादि । अणुशः अल्पशः, वायुनाभिन्ना-विदीर्णा, तस्मिन् वायौ, अनुलोमगे सति मूत्रेण सह निरेति-निर्गच्छति ॥१४-१५ ।। दौर्बल्यं सदन काश्य कुक्षिशूलमथारुधिम् । पाण्डस्वमुष्णवातं व तृष्णां हृत्पीडनं वमिम् ॥१६॥ असाध्यरूपं-प्रशूननामिवृषणं बदमूल रुजाऽऽसुरम् । अश्मरी क्षपयत्याशु सिकता शर्कराऽऽन्धिता ॥१७॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्वात्रिंशमश्मरीनिदान समासम् ॥३२॥ पूर्वार्द्ध समाप्तम् । असाध्यलक्षणमाह-प्रशूनेस्यादि । वृषणा- अण्डकोषः। रुजातुर बेदनायुक्तं, क्षपयति-मारयति ॥ १७ ॥ इति सुधायामश्मरीनिदानम् ॥ "