पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूत्रकृच्छ्रनिदानम् ३०॥ १२३ वातज-पित्तजे मूत्रकृच्छ- तीबार्तिरुग्वजणबस्तिमेढ़ स्वल्पं मुहुर्मत्रयतीह वातात् । पीतं सरक्त सरुजं सदाहं कृष्ई मुहूVत्रयताह पित्तात् ॥३॥ मूत्रकृच्छ्स्य वातादिभेदेन लिङ्गान्याहतीब्रेत्यादि । वसणः - अहमेह. नसन्धिस्थानम् ॥ ३॥ कफज-सन्निपातजं च मूत्रकृच्छ्म्- बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्र सपिच्छ कफमूत्रकृच्छे । सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ॥ ४॥ सलिङ्गस्य=शिश्नसहितस्य ॥ ४ ॥ शल्याघातज-मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा। मूत्रकृच्छ्रम्-मूत्रकृच्छ्रे तदाऽऽघाताज्जायते भृशदारुणम् ।। वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत् ॥५॥ पुरीषाघातजं-शकृतस्तु प्रतीषाताद्वायुर्विगुणतां गतः । मूत्रकृच्छ्र-आध्मानं वातशूलं च मूत्रसङ्ग करोति च ॥ ६ ॥ शकृतः-पुरीषस्य, प्रतीघाताद् = धारणात् ।। ५-६ ॥ अश्मरीहेतुजम्-अश्मरीहेतु तत्पूर्व मूत्रकृच्छ्रमुदाहरेत् ॥ ७॥ शुक्रतुजं- शुक्र दोषैरुपहते मूत्रमार्गे विधाविते । सशुक्र मूत्रयेत्कृच्छ्राद्वस्तिमेहनशुलवान् ॥ ८॥ अश्मरीहेतु -अश्मरीनिमित्त, तत्पूर्वम् = प्रश्मरीपूर्व, मूत्रकृच्छ्रम्, उदाहरेत् - कथयेत् ॥७॥ शर्कराऽश्मयोरक्यं-अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे ॥९॥ अश्मरीशर्करयोः समानत्वमवान्तरभे चाह-अश्मरीत्यादि। प्रश्म- री शर्करा चैते तुल्यसम्भवलक्षणे-तुल्यः सम्भवः - उत्पत्तिहे दुर्लक्षणं-लिङ्ग च ययोस्ते तथा ॥९॥ शर्करावशेष्यं-विशेषणं शकरायाः शृणु कीर्सयतो मम । पच्यमानाश्मरी पित्ताच्छोष्यमाणा च वायुना । विमुक्तकफसन्धाना क्षरन्तो शर्करा मता ॥१०॥ उपद्रवाः-हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः । तया भवतिमूळच मूत्रकृष्ड्रं च दारुणम् ॥ ११ ॥