पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सुधोपेते माधवनिदान- पक्काशयजानाहरूपं- स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्छा शकृतश्च छर्दिः । शोथश्च पक्काशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि ॥१९॥ असाध्योदावर्तलक्षणं- (तृष्णादितं परिक्लिष्ट क्षीणं शूलैरभिद्रुतम् । शकद्वमन्त मतिमानुदावर्त्तिनमुत्सृजेत् ) ॥२०॥ इति श्रीमाधवकरविरचिते-माधवनिदाने-सप्तविंशमुदावत- नाहनिदानं समाप्तम् ॥२७॥ अथाष्टाविंशं गुल्म-निदानम् ॥ २८ ॥ गुल्मसंप्राप्तिः-दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः । तत्संख्या-कुर्वन्ति पञ्चधा गुल्म कोष्ठान्तर्ग्रन्धिरूपिणम् ॥१॥ तत्स्थानानि-तस्य पञ्चविधं स्थानं पार्श्वहन्नाभिबस्तयः ॥३॥ पानाहस्य गुल्मेऽपि सम्भवादानाहानन्तरं गुल्ममाह-दुष्टा इत्यादि । मिथ्याऽऽहारविहारतोऽत्यर्थं दुष्टा वातादयो दोषाः, कोष्ठान्तः-कोष्ठमध्ये, ग्रन्थि- रूपिणं गोलाकारम् , पञ्चधा-पञ्चप्रकारं, गुल्मं कुर्वन्ति । तस्य- गुल्मस्य, पञ्चविधं स्थानं पाश्र्वादयः, वोध्यमिति ॥ १-२॥ तत्स्वरूप हुन्नाभ्योरन्तरे ग्रन्थिः संचारो यदि वाऽचलः । वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः ॥३॥ गुल्मस्य सामान्यरूपमाह-हदित्यादि । नाभिशब्देन बस्तेर्ग्रहणम् भवति लक्षणया। वृत्तो वर्तुलः । चयापचयवान् वृद्धिहासयुक्तः,ग्रन्थिर्गुल्म इति ॥२॥ संख्या-सव्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितः । पुरुषाणां तथा बीणां ज्ञेयो रक्तेन चापरः ॥४॥ पञ्चविधत्तं विवृणोति-व्यस्तैरित्यादिना । व्यस्तैर्दोषैः = यथा वातिकः, पैत्तिकः, श्लैष्मिक इति, समस्तैदोपैः, उच्छ्रितः वृद्धः, सान्निपातिक एकः, एवं पुरुषाणां चत्वारो गुल्माः, सम्भवन्ति । रक्तेन च, अपरः- रक्तगुल्मसंशका, स्त्री- णामेव स भवति । यथाऽऽह-सरौधिरः स्त्रीभव एवं गुल्म इति । अत्र रक्त- पदेनार्तवस्य ग्रहणं न तु धातुरूपरक्तस्य, धातुरूपरक्तगुल्मस्य सीपुरुषसाधार. ण्येन सम्भवात् । तथा चोक्तं-स्त्रीणामार्त्तवजो गुलमो न पुंसामुपजायते। अन्यस्त्वसग्भवो गुल्मः स्त्रीणां पुंसां च जायत इति ॥ ४ ॥ ।