पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदावर्तानाहनिदानम् २७॥ ११७ तुत्तृडदावत्त तन्द्राऽङ्गमर्दावरुचिः श्रमश्च क्षुधाऽभिघातात्कृशता च दृष्टः । यो रूपं- कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविधातावृदये व्यथा च ११ श्वासनिद्रोदावर्तयो रूपं- श्रान्तस्य निःचासविनिग्रहेण हृदोगमोहावथवाऽपि गुल्मः । जृम्भाऽङ्गमर्दोऽशिशिरोऽर्तिजाइयं निद्राऽभिघातादथवाऽपि तन्द्रा १२ कोष्ठवातोदा-वायुः कोष्ठानुगो स्ः कषायकटुतिक्तकैः । वर्तरूपं- भोजनैः कुपितः सद्य उदावतं करोति हि ॥ १३ ॥ वातमूत्रपुरीषासकफमेदोवहानि । स्रोतांस्युदावर्तयति पुरीष चातिवर्तयेत् ॥१४॥ ततो हृदस्तिशूलात? हल्लासारतिपीडितः। वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः ॥ १५ ॥ श्वासकासप्रतिश्यायदाहमोहतृषाज्वरान् । वमिहिकाशिरोरोगमनःश्रवणविभ्रमान् । बहूनन्यांश्च लभते विकारान्वातकोपजान् ॥ १६ ॥ वेगावरोधजानुदावर्तानुक्त्वा दोषजान् बिभणिषुराह-वायुरित्यादि । को. ष्ठानुगः-समस्तोदरमध्यचरः, पवनो रूतादिभोजनः प्रकुपितः स्रोतांसि, उदा. वर्तयति=आच्छादयति । पुरीष-मलम् , अतिवर्सयेत्-शोषयेत् । मनो विभ्रमः-भ्रान्तचितता (स्थाणौ पुरुषप्रतीतिः) । श्रवणविभ्रमः - विपरीत. शब्दश्रवणम् ॥ १३-१६ ।। आनाइरोगनिदानम्- आम शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्त्तमान म यथास्वमेनं विकारमानाहमुदाहरन्ति ॥ १७ ॥ आमाशयजानाइरूप- तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः। आमाशये शुलमथो गुरुत्वं हृत्स्तम्भ उदारविधातन च ॥१८॥ भानाहमाह-आममित्यादि । शकृत-पुरीषम्। प्रतिश्यायः-पीनसः । उदारविघातनम् उद्गारावरोधः ॥ १७-१८॥ इति सुधायामुदावानाइनिदानम् ॥