पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदावतांनाहनिदानम् २७॥ ११६ भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् । तस्य लक्षणमप्येतत्समासेनाभिधीयते ॥ १६ ॥ परिणामशूलमाह-भुक्त भोजनान्ते, जीयति-पच्यमाने, अन्ने यच्छूलं तत्परिणाम जानीयात् ॥१६॥ वातिकम्-आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः। स्निग्धोष्णोपशमप्रायं वातिक तद्वदेद्भिषक् ॥१७॥ पैत्तिक-तृष्णादाहारतिस्वेद कटवाललवणोत्तरम् । शुलं शीतशमप्राय पैत्तिकं लक्षयेद् बुधः ॥१८॥ कफात्मक-छदिहल्लाससंमोहं स्वल्पग्दीर्घसन्तति । कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् ॥ १९ ॥ द्वन्द्वत्रिदोष-संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् । रूपं- त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् ॥२०॥ तस्य वातादिभेदेन लक्षणमाह-आध्मानेत्यादि। आटोपः- गुडगुडा- शब्द उदरे। विण्मूत्रविबन्धः - मूत्रपुरोषयोरवरोधः। दीर्घसन्तति-चिर- कालानुबन्धि । क्षीणमांसबलानलम् -क्षीणा मांसबलानला यत्र तत्त- थोक्तम् ।। १९-२०॥ इति सुधायां शुलादिनिदानम् ।। अन्नद्रवशूलं-जीणे जीर्यत्यजीणे वा यच्छुलमुपजायते ॥ २१ ॥ पथ्यापथ्यप्रयोगेण भोजनाभोजनेन च । न शर्म याति नियमात्सोऽन्नद्रव उदाहृतः ॥ २१ ॥ (अन्नद्रवाण्यशूलेषु न तावत्स्वास्थ्यमश्नुते । वान्तमात्रे जरपितं शूलमाशु यपोहति ) ॥ २३ ॥ इति श्रीमाधवकरविरचिते-माधवनिदाने षड्विशं शूल-परिणाम- शूला-बद्रवशूल-निदान समातम् ॥२६ ॥ मथ सप्तविंशमुदाय नाह-निदानम् ॥ २७ ॥ उदावर्त्त- वातविण्मूत्रज़म्भाखाक्षयोद्वारमीन्द्रियैः । हेतवः- क्षुष्णोच्छ्वासनिद्राणां धल्पोदावर्तसम्भवः ॥१॥ उदावर्तेऽपि शूलसम्भवाच्छूलानन्तरमुदावमाह-बातेत्यादि। अ=