पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सुधोपेते माधवनिदाने- ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शुलम् । तृण्मोहदाहास्किर हिनाभ्यां संस्वेदमूभ्रिमचोषयुक्तम् ॥७॥ मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च । शीते च शीतः समुपति शान्ति सुस्वादुशीतरपि भोजनैश्च ॥८॥ कफशूलस्य हेतुरूपे- आनूपवारिजकिलाटपयोविकारैमोसेक्षुपिष्टकृशरातिलशष्कुलीभिः । अन्यैर्यलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ॥९॥ हृल्लासकाससदनारुचिसंप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः । भुक्त सदैव हि रुज कुरुतेऽतिमा सूर्योदयेऽथ शिशिरे कुसुमागमे च १० पैतिकमाह-क्षारेत्यादि। पिण्याकः-तिलकल्कः। आयासः = परि- श्रमः । रविप्रतापः = प्रातपः। ग्राम्यातियोगः- मैथुनाधिक्यम् । जलदा- त्यये शरदि । श्लैष्मिकमाह-आनूपेत्यादि। आनूपं - जलप्रायदेशीयशूकरा. दिमांसम् ('जलप्रायमनूपं स्यादिश्त्यमरः) । बलासजनकै कफकारकैः । कुसुमागमे वसन्ते ॥६-१०॥ त्रिदोषशूलं- सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् । सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ॥११॥ भामशूलम्-आटोपहल्लासवमीगुरुत्वस्तमित्यकानाहकफप्रसेकैः । कफस्य लिन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ॥१२॥ द्विदोषजशूल-बस्तौ हत्पार्श्वपृष्ठेषु स शुलः कफवातिकः । चिह्नानि- कुक्षौ हनाभिमध्येषु स शूल: कफपैत्तिकः ॥ दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः ॥१३॥ साध्यासा- एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः। ध्यरूपम्- सर्वदोषोत्थितो घोरस्त्वसाध्यो भूयुपद्रवः ॥१४॥ साध्यासाध्यत्वादिलक्षणमाह-एकदोषोत्थितः दोकसम्बद्धः। सर्व- दोषोत्थितः त्रिदोषजः। घोर भयङ्करः। भूर्युपद्रका प्राज्योपद्रयान्वितः, उपद्रवा यथा-वेदना च तृषा मूर्छाधानाहो गौरवास्थी। कासः बा- सश्च हिका च शूलस्योपद्रवाः स्मृताः । इति ॥ १४ ॥ परिणामशूलं-स्वैनिदानैः प्रकुपितो वायुः सन्निहितस्तदा। कफपित समावृत्य शुलकारी भवेदली ॥१५॥