पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० सुधोपेते माधवनिदाने- त्रिदोषजमसाध्यं स्याधस्य च स्युरुपद्रवाः ॥ २१ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने वातरक्तनिदानं समाप्तम् ॥२३॥ पुनरसाध्यत्वासाध्यत्वमाह-अकृत्स्नोपद्रवं निखिलोपवर्जितं याप्यम् , निरुपद्रवम् = उपद्रवरहितं, साध्यम् , एकदोषानुगं- दोषकसम्बद्ध, नवं वा साध्यमेव, द्विदोष-दोषद्वयसंसृष्ट, याप्यम् , त्रिदोषजमुपद्रवादिसंयुत- मसाध्यम् ॥ २१॥ इति सुधायां वातरक्तनिदानम् । अथ चतुर्विशमूरुस्तम्भ-निदानम् ॥२४॥ कारणं-शीतोष्णद्वसंशुष्कगुरुस्निग्धनिषेवितैः । जीर्णाजीणें तथाऽऽयाससंक्षोभस्वप्नजागरैः॥१॥ सम्प्राप्तिः-सश्लेष्ममेदःपवनः साममत्यर्थसश्चितम् । अभिभूयेतर दोषमूरू चेत्प्रतिपद्यते ॥२॥ सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन च । तदा स्तम्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ ३ ॥ तत्स्वरूपं-परकीयाविच गुरू स्यातामतिभृशव्यथौ । ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्यरुचिज्वरैः ॥ ४ ॥ संयुक्तो पादसदनकृच्छोखरणसृप्तिमिः । तमूस्तम्भमित्याहुराज्यवातमथापरे ॥ ५ ॥ ऊरुस्तम्भस्य निदानपूर्विका सम्प्राप्तिमाह-शीतेत्यादि । शीतोष्णादिभिः सश्लेष्ममेदःपवनः सश्लेष्ममेदश्चासौ पवनश्चेति विग्रहः, प्रत्यर्थसंचितं सामम् , इतरं दोषं - पित्तम् , अभिभूय - विजित्य, ऊरू चेत् प्रतिपयते त- दोरू स्तम्नाति तेनोरू स्तब्धौ शीतो परकीयाविव ध्यानाङ्गमर्दादिसंयुक्तो वा स्याताम् । तमूरुस्तम्ममाहुराचार्याः । अपरे चाचार्या श्रादथवा तमाचक्षते॥१-५॥ पूर्वरूप प्रापं तस्य निद्राऽतिध्यानं स्तिमितता ज्वरः । रोमहर्षोऽरुचिपछदिर्जयोः सवनं तथा ॥६॥ भनुपशयः-वातशक्तिभिरज्ञानात्तस्य स्यात्स्नेहनात्पुनः । पादयोः सदन सुप्तिः कृष्छादुसरणं तथा ॥७॥ जयोललानिरत्यर्थे शश्चच्चादाहवेदने । पादं च व्यथते न्यस्तं शीतस्पर्सन वेति च ॥८॥