पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" वातरक्तनिदानम् २३ । १०९ धमन्यगुलिसन्धीनां संकोचोऽङ्गग्रहोऽतिरुक् । शीतद्वेषानुपशयो स्तम्भवेपथुसुप्तयः ॥११॥ वातादिदोषान्तरसंसृष्टस्य वातरक्तस्य लक्षणमाह-वात इत्यादिना। शीतद्वेषः, अनुपशयः-शीतेन रोगवृद्धिः, वेपथुः कम्पः ॥ ११-१२ ।। रक्ताधिकवातरक्तं-रक्तं शोथोऽतिरुक्तोदस्ताम्रश्चिमचिमायते । स्निग्धरूक्षः शर्म नैति कण्डूक्लेदसमन्वितः ॥ १३ ॥ पित्ताधिकवातरक्त-पित्तं विदाहः संमोहः स्वेदो मूर्छा मदस्तृषा। स्पर्शासहत्वं रुपागः शोथः पाको भृशोष्मता ॥ १४ ॥ कफाधिकं द्वित्रिदोषजं वातरक्तं- कफे स्तमित्यगुरुता-सुप्तिस्निग्धत्वशीतताः । कण्डूमन्दा च रुग, द्वन्द्वं सर्नलि च संकरात् ॥ १५ ॥ चिमचिमायते-चिमचिमो वेदनाविशेषः स्तमित्यम् आद्रपटावगुण्ठि- तत्वमिव ॥ १३-१५ ॥ तत्प्रसारप्रकारः-पादयोर्मूलमास्थाय कदा चिद्धस्तयोरपि । आखोर्विषमिव क्रुद्धं तद् देहमुपसर्पति ॥ १६ ।। पादयोर्जातस्य हस्तादिदेहसम्भवमाह-पादयोरित्यादि । आखोः- मूष. कस्य विषमिव तद्-वातरक्त, देहं हस्तादिदेहम् , उपसर्पति गच्छति ॥१६॥ असाध्यं याप्यं च-आजानुस्फुटितं यच्च प्रभिन्न प्रचुतं च यत् । उपदवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः । वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् ॥१०॥ असाध्यलक्षणमाह-आजान्वित्यादि । आजानु जानुपर्यन्तगतम् स्फुटितं -दलितत्वक् , प्रभिन्न विदीर्णत्वक् , उपद्रैः = प्राणक्षयादिभि- रस्वप्नादिभिर्वा, जुष्टंसेवितम् ॥ १७ ।। उपद्रवाः-अस्वप्नारोचकश्वास-मांसकोथशिरोग्रहाः ॥१८॥ संमू मदरसृष्णाज्वरमोहप्रवेपकाः । हिकापायल्यवीसर्पपाकतोदभ्रमलमाः ॥१९॥ अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः । एतरुपद्वैबय मोहेनैकेन वाऽपि यत् ॥ २० ॥ साध्यासा- अकृत्स्नोपद्रवं याप्यं साध्यं स्याग्निरुपद्रवम् । ध्यत्वम्- एकदोषानुग साध्यं नवं, याप्यं द्विदोषजम् ।