पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. वातव्याधिनिदानम् २२ । १०५ कोष्टुकशीर्षमाह-वातेत्यादि। क्रोष्टुकशीर्षवत् जम्बुकमस्तकवत् , स्थूल: शोथो वातरक्तजः को टुकशीर्षाभिधानः ॥ ६१ ॥ खजः पङगुञ्च-वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेयदा । खजस्तदा भवेज्जन्तुः, पगुः सक्थ्नो योर्वधात् ॥ ६ ॥ खअमाह-वायुरित्यादि । सक्थ्ना जवायाः, कण्डरां स्थूलसिराम् , आक्षिपेद्-ईषक्षिपेत् , बदा खलः,द्वयोः सक्थ्नोर्वधात् पङ्गुः ॥ १२ ॥ कलायखज:-प्रक्रामन्वेपते यस्तु खजन्निव च गच्छति । कलायखजं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ ६३ ॥ खाविशेषमाह-प्रक्रामन्नित्यादि । प्रकामन-गमनमारभमाणः, मुक्त- सन्धिप्रबन्धन-शिथिलीकृतसन्धिवन्धनम् ॥ ६३॥ वातकण्टकः-रुक पादे विषमन्यस्ते श्रमाद्वा जायते यदा। वातेन गुल्फमाश्रित्य तमाहुतकण्टकम् ॥ ६४ ॥ पाददाहः-पादयोः कुरुते दाहं पित्तासुसहितोऽनिलः । विशेषतश्चक्रमतः पाददाहं तमादिशेत् ॥ ६ ॥ पादइर्षः-हृष्येते चरणौ यस्य भवेतां चापि सुप्तको। पादहर्षः स विज्ञेयः कफवातप्रकोपतः ॥६६॥ अंसशोषोऽव-अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् । बाहुकश्च-सिराश्चाकुच्य तत्रस्थो जनयेदवबाहुकम् ॥ ६ ॥ मूकमिन्मिन-आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । गद्दाः-नरान्करोत्यक्रियकान्मूकमिन्मिनगद्दान् ॥ ६८ ॥ मूकादीनाह-आवृत्येत्यादि । अक्रियकान् - शब्दव्यापारासमर्थान् , मूकमिन्मिनगदगदान-मूकः भवचनः, मिन्मिनः-सानुनासिकसर्ववचनः, गद्गदा-लुप्तपदव्यअनाभिधायी ॥६॥ तूनीरोगः-अधो या वेदना याति वर्षोमूत्राशयोत्थिता। मिन्दतीय गुदोपस्थं सातूनी नाम नामतः ॥ ६९ ॥ तूनीमाह-अध इत्यादि । या वेदना अधो-गुदोपस्थं, वर्धोमूत्राशयो- त्थिता पकाशयोत्पन्ना सती याति गुदोपस्थं मिन्दतीव-भेद कुर्वतीव, सा नामतस्तूनीति कथ्यते ॥६॥ प्रतितुनी-गुदोपस्थोत्थिता या तु प्रतिलोम प्रधाविवा। वेगैः पकाशयं पाति प्रतिवूनीति सोच्यते ॥ ७० ॥