पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ सुधोपेते माधवनिदाने- त्वा शिथिलयित्वा, विवृतास्यत्वं प्रसारिताननत्वं, संवृतास्यता-सङ्कुचि- ताननत्वम् ॥ ५२-५३ ।। मन्यास्तम्भः-दिवास्वप्नासमस्थानविवृतोर्ध्व निरीक्षणः । मन्यास्तम्भ प्रकुरुते स एव श्लेष्मणाऽऽवृतः ॥१४॥ मन्यास्तम्भमाह-दिवेत्यादि । असमस्थानम्-उच्चावचप्रदेशः, विवृ. तोर्ध्वनिरीक्षणः-विष्फारितनयनावलोकनैः ॥ ५४ ॥ जिहास्तम्भः-वारवाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः । जिलास्तम्भः स तेनान्नपानवाक्येष्वनीशता ॥ १५ ॥ जिह्वास्तम्भमाह-वागित्यादि । वागवाहिनीसिरासंस्थः- शम्दवा- हिनीसिराऽधिष्ठितः , अनीशता-असमर्थत्वम् ॥ ५५॥ सिराग्रहः-रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः। रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः ॥१६॥ सिराग्रहमाह-रक्तमित्यादि। मूर्धधराः शिरोधराः, ग्रीवागता इति यावत्५६ गृध्रसी-स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् । गृध्रसी स्तम्भरुक्तोदेहाति स्पन्दते मुहुः ।। वाताद्वातकफात्तन्द्रा गौरवारोचकान्विता ॥ १७ ॥ गृध्रसीमाह-स्फिक्पूर्वेत्यादि । वाताद् गृध्रसी स्फिक्पूर्वा स्तम्भरुक तोदः क्रमात् कट्यादिकं गृह्णाति, मुहुः स्पन्दते-कम्पते च । स्फिक् पूर्वा प्रथमतः स्तम्भरुजाऽऽदिभिर्यस्याः सा स्फिक्पूर्वेति ॥ ५७॥ ( वातजायां भवेत्तोदो देहस्यापि प्रवक्रता । जानुकटयूरुसन्धीनां स्फुरणं स्तब्धता भृशम् ॥ १८ ॥ वातश्लेष्मोद्भवायां तु निमित्तं वहिमार्दवम् । तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च)॥१९॥ विश्वाची-तलं प्रत्यङ्गुलीनो याः कण्डरा बाहुपृष्ठतः । बाह्रोः कर्मक्षयकरी विश्वाची चेति सोच्यते ॥६॥ विश्वाचीमाह-तलमित्यादि । तलहस्तोर्ध्वप्रदेशः, बाहुपृष्ठतः बालोः पृष्ठ बाहुपृष्ठं ततः, बाह्रोः कर्मक्षयकरी बाहोरित्यत्र द्वित्वं नियमाविवक्षि- तम् , एकबाहावपि तत्सम्भवात् ।। ६० ॥ कोष्टकशीर्षः-वातशोणितजः शोथो जानुमध्ये महाराजः । शेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् ॥६१॥