पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ वातव्याधिनिदानम् २२ । (गर्भिणीसुतिकाबालवृद्धक्षोणेष्वसक्नुते । पक्षाघात परिहरेदू वेदनारहितो यदि)॥४४॥ मर्दितरोगः-उच्चाहरतोऽत्यर्थ खादतः कठिनानि वा । हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ॥ ४५ ॥ शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः । अर्दयत्यनिलो वक्त्रमदितं जनयत्यतः ॥४६ ॥ वक्रीभवति वक्त्रार्ध ग्रीवा चाप्यपवर्तते । शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ॥ ग्रीवाचिबुकदन्तानां तस्मिन्पावें च वेदना ॥४७॥ अर्दितमाह-उच्चैरित्यादिना। अत्यर्थम् , उच्चैयाहरत:-उच्चस्वरेण भाषमाणस्य, कठिनानि द्रव्याणि खादतः, भाराद-गुरुपदार्थोद्वहनात् , विष- मशायिनः उच्चावचभूमिशयानस्य, पुसः शिरोनासाऽऽदिस्थानसस्थितः पवनः, वक्रम्-मुखम् ,अर्दयति पीडयति, तेन वक्रा) वक्रीभवति, ग्रीवा-शिरोध- राऽपि, अपवर्तते-वक्रीभवति, शेषं सुबोधम् ॥ ४५-४७ ॥ (यस्याग्रजो रोमहर्षो वेपथुनेंत्रमाविलम् । वायुरूध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः ) ॥ ४८ ॥ तमर्दितमिति प्राहुयाधि व्याधिविचक्षणाः ॥४९॥ तदसाध्यता-क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः । न सिध्ययदितं गाढ त्रिवर्षे वेपनस्य च ॥ १० ॥ अर्दितस्यासाध्यलक्षणमाह-क्षीणस्येत्यादि । प्रसक्ताव्यक्तभाषिणा प्रसक्तम् अप्रवृत्तम्, अव्यक्त प्रपीडिताक्षरंभाषितुं शीलं यस्य स तथा। त्रिव. पम्-प्रतीताग्दत्रयम् , त्रयाणां - मुखनासाचतुषाश्च वर्षःस्रवणं यत्र तत्त- थेति वा । वेपनस्य कम्पयुक्तशरीरस्य ॥ ५० ॥ स्वास्थ्यरूप-गते वेगे भवेत स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ॥ ११ ॥ हनुग्रह--जिद्वानिलेखनाच्छुष्कभक्षणादभिधाततः । कुपितो हनुमूलस्थः संसयित्वाऽनिलो हनुम् ॥ १२ ॥ करोति विवृतास्यत्वमथवा संवृतास्यताम् । हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् ॥ १३ ॥ हनुग्रहमाह-जिहेत्यादि। हनुमूलस्यः कपोलमूलाधिष्ठितः, संसयि.