पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ सुधोपेते माधवनिदाने- बाह्यायामः-बाह्यस्नायुप्रतानस्थो बाह्यायाम करोति च । तमसाध्य बुधाः प्राहुर्वक्षाकट्यूरुभम्जनम् ॥ ३६ ॥ आभ्यन्तरायामबहिरायामयोर्विशेषलक्षणमाह-अङ्गुलीत्यादि । स्नायु. प्रतानं स्नायुजालं, स्नायुपदं शिराकण्डरयोरप्युपलक्षणम् , तेन सिराकण्ड- रयोरपि संग्रहः । आभ्यन्तरायाम-क्रोडे नतम् , बायायाम-पृष्ठे नतम् , अत्रैव कुजस्यान्तर्भावः ॥ ३२-३६ ॥ अभिघातजा-कफपित्तान्वितो वायुर्वायुरेव च केवलः । क्षेप:- कुर्यादाक्षेपर्क त्वन्यं चतुर्थमभिघातजम् ॥३७॥ तदसाध्यरूपं गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः । अभिघातनिमित्तश्च न सिध्यत्यपतानकः ॥ ३८॥ असाध्यत्वमाह-गर्भपातनिमित्तः आकालिकगर्भपातहेतुकः, शोणि- तस्व-रक्तस्य, चातिस्रवाज्जातः, अभिघातनिमिसः काष्ठलोष्ठादिप्र- हारहेतुकः, अपतानको न सिद्धयतीति ॥ ३७-३८ ॥ पक्षाघात:-गृहीत्वाऽधं तनोर्वायुः सिराः स्नायूविशोष्य च । पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन् ॥३९॥ कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः । एकाङ्गरोगं तं के चिदन्ये पक्षवर्ध विदुः॥ ४०॥ पक्षवधमाह-गृहीत्वेत्यादि। वायुः, तनो:- शरीरस्य, अर्धं गृहीत्वा सिराः स्नायूर्वा विशोष्य सन्धिबन्धान विमोक्षयन् -इलथीकुर्वन, अन्यतरं- वाम दक्षिणं वा पक्ष हन्ति, कृत्स्नोऽर्धकायः सकलार्धदेहः, तस्य-रोगिणः, अकर्मण्यः-निष्क्रियः, विचेतनः निःसंशश्च भवति, तमेकाङ्गरोगं वदन्ति के चिद् , अन्ये पक्षवधं, विदुः प्रामनन्ति ॥ ३९-४० ॥ उभयपक्षाघातः-सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ॥४१॥ तत्रापरदोष-दाहसन्तापमूर्छाः स्युर्यायौ पित्तसमन्विते । सम्बन्धः-शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ॥ ४२ ॥ तत्साध्या-शुद्धवातहतं पक्ष कृच्छ्रसाध्यतमं विदुः । साध्ये-साध्यमन्येन संयुक्तमसाध्य क्षयहेतुकम् ॥ ४३ ॥ पित्तसमन्विते दाहादयः कफसमन्विते शैत्यादयो भवन्ति । पक्षवधस्य साध्यासाध्यलक्षणमाह-शुद्धत्यादिना । शुद्धवातहतं केवलानिलारब्धं, कृच्छू. साध्यतमम् , अन्येन-कफेन पित्तेन वा, संसृष्टमसायम् ॥ ४२-४३ ॥ .