पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ सुधोपेते माधवनिदाने- वातप्रकोपेण सङ्कोचः पर्वणां स्तम्भो भङ्गोऽस्थ्नां पर्वणामपि । संभवन्तो रोमहर्षः प्रलापश्व पाणिपृष्ठशिरोग्रहः ॥६॥ रोगाः- खाज्यपाङ्गुल्यकुछजत्वं शोधोऽङ्गानामनिद्रता। गर्भशुक्ररजोनाश: स्पन्दनं गात्रसुप्तता ॥७॥ शिरोनासाऽक्षिजवणां ग्रीवायाश्चापि हुण्डनम् । भेदस्तोदोऽतिराभेपो मुहुश्चायास एव च ॥८॥ एवंविधानि रूपाणि करोति कुपितोऽनिलः । हेतुस्थानविशेषाश्च भवेद्रोगविशेषकृत् ॥९॥ कुपितस्य वायो नाविधानि कार्याणि वर्णयति-सकोच इत्यादिना । पर्वणां संकोचः स्तम्भोऽपि पर्वणामेव। शिरोग्रहः-मस्तकपीडा, खाज्यं- खजता, पाङ्गुल्य पङ्गुता, स्पन्दन गात्रकम्पनम् , सुसता स्पर्शहानिः, हुण्डनम् - अन्तः प्रवेशो वक्रता वा । हेतुविशेषाद्रोगकृद् , यथा-श्लेष्मावृतो मन्यास्तम्भकारी । स्थानविशेषाद्रोगकृद् यथा-पक्वाशयस्थोऽन्त्रकूजादि ॥६-९॥ कोष्ठवायु- तत्र कोष्टाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः । रोगः- अध्नहृद्रोगगुल्मार्श:पाथर्वशुलं च मारुते ॥१०॥ तत्तत्स्थानविशेषाधिष्ठितानां वाताना लक्षणान्याह-तत्रेत्यादिना । मुत्र- वर्चसोः-मूत्रमलयोः, निग्रहः भवरोधः ॥१०॥ सर्वाङ्गवात-सर्वाङ्गकुपिते वाते गात्रस्फुरणभजनम् । रोगः- वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ॥ ११ ॥ गुदवात- ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः। रोगः- जयोत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते ॥१२॥ आमाशय- रुक् पाश्वोदरहन्नामेस्तृष्णोद्वारविचिकाः। वातरोग:-कासः कण्ठास्यशोषश्च श्वासचामाशयस्थिते ॥१३॥ स्फुरणं कम्पनं, भजन -पीडा । परीता-व्याता ॥ ११-१३।। पक्वाशयवा-पक्काशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च । तरोगः- कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ॥ १४ ॥ त्रिकवेदनां-शिरोग्रीवासन्धिस्त्रिकम् , तत्र वेदना-पीडाम् ॥ १४ ॥ इन्द्रियवातरोग:-श्रोत्रादिग्विन्द्रियवधं कुर्याद् दुष्टसमीरणः ॥१५॥ त्वगतवात-स्वक्षा स्फुटिता सुप्ता कृया कृष्णा च तुयते । रोगः- आतन्यते सरागा च पर्वक् त्वग्गतेऽनि ॥१६॥ ।