पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- वातिकमाह-कम्पत इत्यादि। मनिलात्-वाताद्, दन्तान्प्रदशेत् , सिति खरश्वासो भवति, परुषादिरूपाणि च पश्यति ॥ ४ ॥ पित्तजरूप-पीतफेनाङ्गवक्त्राक्षः पीतामुग्रूपदर्शकः । सतृष्णोष्णानलव्याप्तलोकदशी च पैत्तिकः ॥५॥ पैत्तिकमाह-पीतेत्यादि । सतृष्णोष्णानलव्याप्सलोकदर्शी-तृष्णया सहितः सतृष्णः स चासावु णश्चेति तथा अनलव्याप्तं लोकं पश्यतीत्यनल- व्याप्तलोकदशी सतृष्णोष्णश्चासा वनलव्याप्तलोकदशी चेति तथाभूतः ॥ ५॥ कफजरूप-शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः । पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ॥ ६ ॥ श्लैष्मिकमाह-शुक्लेत्यादि । शीतहृष्टाङ्गजः- शीतेन रोमाञ्चयुक्तः, चिराद-विलम्बेन, मुच्यते रोगादिति शेषः ॥६॥ त्रिदोषजरूपं सवरेतः समस्तैश्च लिङ्गशेयस्त्रिदोषजः । असाध्यरूपं-अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥७॥ प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभुवम् । नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ॥८॥ असाध्यलक्षणमाह-प्रस्फुरन्तमित्यादि । प्रस्फुरन्तं - वेपमानम् , प्रच- लितभ्रुवं नेत्राभ्यां विकुर्वाण-विकृतिमासादयन्तम् , क्षीण-शक्तिहीनम्।।८।। वेगकाला:-पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः। अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ॥९॥ अपस्मारप्रकोपकालमाह-पक्षाद्वेत्यादि। कुपिताः, मला वातपित्त- कफाः, पक्षाद्वातिकः, द्वादशाहात्पत्तिकः, मासाच्छ्लैष्मिकः, किञ्चिदयान्त- रम् = उक्तकालादगिपि, दोषोच्छायवशाद् वेगं कुर्वन्ति ॥९॥ सदाऽवेगे देवे वर्षत्यपि यथा भूमौ बीजानि कानि चित् । हेतु:- शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ॥१०॥ इति श्रीमाधवकरविरचिते-माधवनिदाने एकविंशमपस्मार- निदानं समाप्तम् ॥ २१॥ ननु वेगं कृत्वाऽपस्मारारम्भको दोषः सर्वदा वेगारम्भको न भवति, निव- तते तस्कस्मादेतोरित्यत आह-देवे वर्षतीत्यादि । कानि चिद् बोजानि न स. वाणि, देवे- पर्जन्ये, वर्षत्यपि सति शरदि-कालविशेष एवं प्रतिरोहन्ति- -