पृष्ठम्:महासिद्धान्तः.djvu/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पराशरमताध्यायः ॥ तत्रादौ पराशरमतकथने कारणमाह। कलिसंज्ञे युगपादे पाराशर्ये मतं प्रशस्तमतः । । वक्ष्ये तदहं तन्मम मततुल्य मध्यमान्यत्र ॥१॥ कलिसंज्ञे कल्याख्ये युगचरणे पाराशर्य पराशरभवें मतं प्रशस्तं शुभमतोऽहमाचार्यो मम मततुल्यं मन्मतेन दृग्गाणितं यत् तेन तुल्यं तत् तन्मतं वक्ष्ये कथयिष्ये । अस्मिन् मते अत्र मध्यमाने मध्यमग्रहमानानि च वक्ष्ये । इदानीं सिद्धान्तद्वयस्य समयमाह ॥ एतत्सिद्धान्तद्वयमीषद्याते कलौ युगे जातम् स्वस्थाने दृक्तुल्या अननरेखटाः स्फुटाः कायः ॥२॥ मदीयः सिद्धान्तः पराशरसिद्धान्तश्चैतद्द्वयं कलैौ युगे कलिगुँगे ईषत् किविद्यते गते जातुमुद्भूतम् । स्वस्थाने ओनैन सिद्बुन्तुइयन स्फुटाः खटा दृक्तुल्या बंधापलब्धग्रहसमाः काया गणकनात शेषः । एतत् सिद्धान्तद्वयं दृग्गणितैक्यकृदस्तीति ॥२॥ अत्र विशेषमाह । नात्र मते सृष्टव्यब्दाः शेषं कल्पादिकं प्राग्वत् । कल्पेऽत्राधिकामासाश्यमधीलूलागघामपणाः ॥३॥ रमनिजखुभितमघणना न्यूनाहा मेदिनीदिवसाः । कुमसीसोधीपोसामुसिनेननिना च चक्राणि ॥४॥ अत्र पराशरमते सृष्टाब्दा न सन्ति । ब्रह्मार्दनस्टष्टयोरेककाल एवारम्भः । शेषं कल्पादिकं प्राग्वत् मन्मतेन तुल्यं पूर्वोक्तवत् । अत्र • यमधीललीलवीमपणा इति पाठान्तरम् |