पृष्ठम्:महासिद्धान्तः.djvu/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く सतिलके महासिद्धान्ते अहर्गणस्यावमानां कल्पक्षयाहानां च बध उर्वीदिनैः कल्पकुदिनैरुद्धृतः । अवमफलेन क्षयाहलब्धनाहर्गणे युतः पृथक्स्थाप्यः । पृथक्स्थमधिमसैः कल्पाधिमसैर्हतं हिमगुवासरैश्चान्द्रहैभंजेलब्धा अधिका मासा भवन्ति तद्दिनै रहितोऽवमयुताहर्गणो गलैः षष्ट्यधिकशतत्रयेण भक्तः फल कल्पगर्त वर्षाद्य भवति। अत्रोपपत्तिः । ग्रहाहर्गणानयनविलोमतः स्फुटा ॥३०-३१॥ इदानीं ख-ग्रह-भकक्षा आह। *योदोथमिनहनरेयचिनेनननोनना खकक्षेयम्। भगणासा निजकक्षा त्नहता रविकक्षिका भानाम् ॥३२॥ योजनात्मिका खकक्षा=१८७१२ec०२१६eeeeee इयं यस्य ग्रहस्य भगणैराप्ता तस्य कक्षा भवेत्। रविकक्षा ज्ञेन षष्ठा हता भानां नक्षत्राणां कक्षा भवेत्। अत्रोपपत्यर्थ 'कोटिनैर्नखनन्दषट्क-इत्यादिभास्करोक्त विचिन्यम् ||३२|| इदानी ग्रहकक्षासाधनं दिनगतियोजनसाधर्न चाह । . यो यत्र भ्रमति स्वगस्तद्वृत्तं भवति तस्य कक्षाख्यम्। अम्बरकक्षा कल्पाहर्गणभक्ता भवेद्द्युगतिः ॥३३॥ । यत्र यस्मिन् वृत्ते यः खगेो ग्रहो भ्रमति तद्वृत्तमेव तस्य ग्रहस्य कक्षाख्यं कक्षावृत्ताख्यं भवति । पूर्वोदिताम्बरकक्षाखकक्षा कल्पाहर्गणेन कल्पकुदिनमानेन भक्ता ग्रहाणा योजनात्मिका द्युगतिर्दिनगतिर्भवेत्। । अत्रोपपत्तिः । पूर्वार्धेस्य स्पष्टा । उत्तरार्धस्य * कल्पोद्भवैः क्षितिदिनैगेगनस्य कक्षा भक्ता भवेद्दिनगतिर्गगनेचरस्य ' इत्यादिभास्कगेहूंकोपपत्या स्फुटा । अत्र खकक्षा = १८७१२ece:२१६eeeeee कल्पकुदिनानि=१५७७९१७५४२eee |

  • केदोथाप्रनहनरेयाचिननननोनना इति वि. पुस्तके पाठ: ।