पृष्ठम्:महासिद्धान्तः.djvu/64

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6. सतिलके महसिद्धान्ते इदानी कल्पादिमानमाह । कलिसञ्ह्रो युगपादो द्विडिस्विनिनीना विलोमतश्चाद्याः । कलिवृद्धव्या तद्योगो युगं युगैस्तैर्मनुः स्कमितैः ॥१५॥ कलिसञ्ज्ञेो युगाङ्घ्रः = ४३२०e० । कलिवर्षवृद्ध्या अन्ये युगाङ्घयो भवन्ति । अत्रैतदुक्ततं भवति । कालमाने कालतुल्यवर्षयोगेन द्वापरमानम् ८६४००० । द्वापरमाने कलिवर्षयोगेन त्रेतामानम्। । १९६०००त्रेतामाने कालवर्षयोगेन कृतमानं १७२८००० मित्यर्थः।। तद्योगस्तेषां कल्पादि युगाडूधिमानानां योगी युगं ४३२eeee भवतेि । तैः स्क ७१ मितैर्युगैरेको मनुरिति ॥१५॥ इदानी कल्पमानमाह । कभ१४मनवस्ते कल्पे कृताब्दतुल्यैः कमसन्धिभिः साहिताः । अाद्यन्तरान्ल्यवर्त्तिभिरेवं कल्पोऽर्कभगणतुल्याब्दः ॥१६॥ कभमनवश्चतुर्दश ते मनवः ४२९४०८०००० कल्पे भवान्ति । ते च कृतवर्षतुल्यैः " क्मसान्धिभिः पञ्चदशसन्धिभिः । अाद्यन्तरान्त्यवर्त्तिभिसदिमध्यावसानसंस्थितैः २५ऽं२०००० साहिताः सन्त एवं कल्पः सूर्यभगणतुल्यवर्षो પ્રટિeeeeee મવતિ lારા इदानी ब्राह्मदिनमानमाह । ब्राह्मो दिवसः कल्पः कल्पसमा शर्वरी तत्र । ब्रहभसुरासुरलोका नश्यन्त्याविर्भवन्ति दिवसादौ ॥१७॥ पूर्वप्रतिपादितः कल्प एव ब्राह्मेो दिवसः । ब्रह्मणः शर्वरी त्रिश्च कल्पसमा भवति । तत्र तस्यां रात्रौ ग्रह-नक्षत्र-देवदैत्यप्रा. ,नः’ सर्वे नश्यन्ति । दिवसादौ ब्रह्मणो दिवसारम्भे च ते प्राणिनः पुन वर्भवन्ति उत्पद्यन्त इत्यर्थः ॥१७॥ " ♚ वित्त्रेमतश्चान्ये-इति पाठः साधुः । विलीमतश्चोक्ताः इति वि. पुस्तके पाठः ।।