पृष्ठम्:महासिद्धान्तः.djvu/290

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R3 सतिलके महसिद्धान्ते दृकु> राशे+१२ · । तदा इ+य इदमपि भगणशेषम् । राशे+१२’इ इदं च राशिशेषं भवितुमर्हति ।। * राश्यादेर्ग्रहाविकलाः ? इत्यादिभास्करोत्तमप्यतादृशमव ॥ ३९ ॥ इदानी विशेषमाह । *करणीमिताधिकाल्पाः कलेप स्युभेगणपूर्वशेषाणाम् । करधितननुनै सुदृढा युगणा आसा ग्रहस्य विकलाम्राः ॥४०॥ भगणपूर्वशेषाणां भगणराशिलवकलाविकलाशेषाणां मितयः करणीमेिताधिकाल्पाः । करणी अपवर्तनाङ्गो हारः । राशिशेष द्वादश, अंशशेषे भगणांशाः ३६० कलाशेषे भगणकलाः २१६००, ‘ विकलाशेषे चक्राविकलिकाः १२९६००० । एभिहराः समा अधिका अल्पाश्च भवितृमहेन्ति । सुदृढा द्यगणाः कल्पे दृढकुदिनानि । कराधतननुनैः १२९६००० आप्ताः । ततः शेषत्यागे लब्धं रूपयुतं भगणशेषं स्यादित्यादि कर्म कर्त्तव्यम् ॥४०॥ . इदानी विशेषमाह । कल्पद्युगणः ख-विधेरभावतो वा यदा दृढी घुगण: । करधितननुनै अल्पस्तदात्र केचित् खिलाः प्रश्नाः ॥४१॥ ख-विधेः पूर्वोक्तद्वितीयप्रकारस्य यदा भाज्यहारक्षेपाः केनाप्यक्त्र्या न तदा कल्पद्युगणः कल्पकुदिनान्येव दृढकुदिनमानं ज्ञेयमित्यर्थत एव सिध्यति । अथ यदा दृढो द्युगणः कुदिनानेि चक्राविकलाभरल्पस्तदात्र शेषेोनहरो विकलाशेषं ३९,श्लेकोपपत्तौ यत् प्रदर्शितं । तस्य काचित् दृढकुदिनाधिकत्वात् केचित् प्रश्नाः खिला भवन्तीति स्फुटं ज्योतिर्विदाम् ॥४१॥ इदानी पुनर्विशेषमाह । भगणा ऊर्ध्वः कुट्टोऽधः कुट्टो वासरौघश्च । *भगणाग्रादेवें वा दृष्ट्रग्रहजा विलिसाः स्युः ॥४२॥ = 'करणीमिताः प्रकल्प्याः इति वि. पुस्तके पाठः ।। † भगणाद्रेक्षा एवं वृद्धया ग्रहजा विकल्पाः स्युः इति वि. पुस्तके प्रामादक: पाठ: ।